चाटुचणकः(ज्योतिषिकः)

विकिसूक्तिः तः
(चाटुचणकः/ज्योतिषिकः इत्यस्मात् पुनर्निर्दिष्टम्)
ज्योतिषिकः


आयुःप्रश्ने दीर्घमायुः वाच्यं मौहूर्तिकैः द्विजैः ।
जीवन्तो बहु मन्यन्ते मृता जीवन्ति किं पुनः ॥

यदि कश्चित् ज्योतिषिकं - 'मम आयुः कियत् ?' इति पृच्छति तर्हि 'दीर्घायुः भवान्' इत्येव वक्तव्यम् । तन्नाम 'शताधिकवर्षाणि जीविष्यति भवान्' इति वक्तव्यम् । यः तावद्दीर्घं जीविष्यति स तु ज्योतिषिकविषये परमादरं प्रकटयति एव । यः अल्पे एव वयसि दिवं गतःस तु ज्योतिषिकसमीपम् आगन्तुं नार्हति । अतः दीर्घायुष्कत्वकथनात् न कापि हानिः ।



पुत्र इत्येव पितरि कन्यकेत्येव मातरि ।
गर्भप्रश्नेषु कथयन् दैवज्ञो विजयी भवेत् ॥
गर्भवती यदा पृच्छति - 'मम पुत्रः जायते, उत पुत्री ?' इति, तदा पुत्री इति, तस्याः पतिः यदा एतं प्रश्नं पृच्छति तदा पुत्रः इति च यः ज्योतिषिकः वदति सः निश्चयेन खलु जनप्रियतां प्राप्य प्रभूतं धनं सम्पादयेत् ? प्रियवक्तरि सर्वे खलु तुष्यन्ति ?



अपि सागरपर्यन्ता विचेतव्या वसुन्धरा ।
देशो ह्यरत्निमात्रोऽपि नास्ति दैवज्ञवर्जितः ॥ - कलिविडम्बना

ज्योतिषिकाः (दैवज्ञाः) भवन्ति एव सर्वत्र । शास्त्रं समग्रम् अधीत्य ज्योतिषिकत्वस्य प्राप्तिः अन्या । शास्त्रस्य अल्पं भागम् अधीत्य ज्योतिषवृत्तिम् अवलम्ब्य जीवनयापनम् अन्यत् । लोके आधिक्येन दृश्यन्ते द्वितीयविधाः एव 'ज्योतिषिकाः' । तान् मनसि निधाय कविः वदति - 'समग्रे प्रपञ्चे अन्वेषणं क्रियेत चेदपि ज्योतिषिकविरहता अल्पा अपि भूमिः न प्राप्येत' इति । कवेः कथने उत्प्रेक्षांशस्य अल्पता एव इति भासते खलु ?



सर्वं कोटिद्वयोपेतं सर्वं कालद्वयावधि ।
सर्वं व्यामिश्रमिव च वक्तव्यं दैवचिन्तकैः ॥

जातकफलं ज्ञातुं यदा जनाः आगच्छन्ति तदा ज्योतिषिकेण सर्वदा 'एवं भवति, एवं वा भवति' इति द्विविधम् उत्तरं वक्तव्यम् । तथैव 'अमुककाले भवति, अमुककाले वा भवति' इति कालद्वयात्मकतया वक्तव्यम् । सर्वम् अपि भ्रमजनकतया अपि वक्तव्यम् । तदा एव ज्योतिषिकः आक्षेप्तॄणाम् आक्षेपात् आत्मानं रक्षितुम् अर्हति ।

"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(ज्योतिषिकः)&oldid=15964" इत्यस्माद् प्रतिप्राप्तम्