चाटुचणकः(दारिद्र्यम्)

विकिसूक्तिः तः
(चाटुचणकः/दारिद्र्यम् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

<poem>

शत्रौ सान्त्वं प्रतीकारः सर्वरोगेषु भेषजम् । मृत्यौ मृत्युञ्जयध्यानं दारिद्र्ये तु न किञ्चन ॥

शत्रुत्वं यदा दृश्यते तदा जनैः प्रतीकारः चिन्त्यते । प्रतीकारकारणतः शत्रुता उपशान्ता भवति । रोगेषु उपस्थितेषु जनैः औषधं सेव्यते । औषधसेवनात् रोगोपशमनं भवति । मरणभीतौ उपस्थितायां जनैः मृत्युञ्जयजपः क्रियते । तस्मात् सा भीतिः अपगच्छति । एवं शत्रु-रोग-मरणभीत्यादीनां निवारणाय अस्ति एव कोऽपि मार्गः । किन्तु दारिद्र्यस्य निवारणाय नास्ति एव कोऽपि मार्गः ।


यत्प्रयोगेण धनिनो निर्धनान् शिक्षयन्ति यत् । दुःखदं नास्ति दारिद्र्यं तद्वै दर्शनशास्त्रकम् ॥ - (डा प्रशस्यमित्रशास्त्री)

दारिद्र्यं भवति सदा दुःखकारकम् । किन्तु धनवन्तः जनाः दर्शनशास्त्रोक्तान् अंशान् अवलम्ब्य निर्धनान् बोधयन्ति - 'दारिद्र्यं दुःखदं नास्ति' इति । लोभमोहादयः त्यक्तव्याः इति खलु उपदिशति दर्शनशास्त्रम् ? स्वयं लोभमोहादिवशं गताः सन्तः धनिनः - 'लोभमोहादित्यागाय दारिद्र्यम् उपकारकम् एव' इति वदन्तः साधनत्वेन दर्शनशास्त्रस्य उपयोगं कुर्वन्ति ।


अयं पटः सूत्रदरिद्रतां गतः अयं पटच्छिद्रशतैरलङ्कृतः । अयं पटः प्रावरितुं न शक्यते अयं पटः संवृत एव शोभते ॥

अत्रास्ति कस्यचित् दरिद्रस्य कथा । तत्समीपे सन्ति त्रिचतुराणि वस्त्राणि । एकं वस्त्रं छिन्नसूत्रयुक्तत्वात् धारणयोग्यं न । अपरस्मिन् शताधिकानि रन्ध्राणि दृश्यन्ते । तृतीयम् अस्ति । किन्तु तत् धृतं चेत् जनाः निश्चयेन हसेयुः । चतुर्थम् अपि अस्ति वस्त्रम् । किन्तु पुटीकृत्य स्थापितं चेदेव तस्य शोभा (प्रसारितं तत् मानहानिं जनयेत्) कष्टं खलु दरिद्रजीवनम् ?


रात्रौ जानु दिवा भानुः कृशानुस्सन्ध्ययोर्द्वयोः एवं शीतं मया नीतं जानुभानुकृशानुभिः ॥

कश्चन निर्धनः अन्येन पृष्टः - 'शीतदिनानि भवता कथं यापितानि ? ऊर्णवस्त्रादीनि भवतः समीपे न सन्ति खलु ?' इति । तदा निर्धनः अवदत् - 'रात्रौ जानुनोः मध्ये मुखं निवेश्य स्थितम् । दिवाकाले भानुः (सूर्यः) मम साहाय्यम् अकरोत् । सन्ध्याकाले (प्रातः सायं च कृशानुः (अग्निः) मम उपकारकः आसीत् । एवं मया जानुभानुकृशानूनां साहाय्येन शीतकालः यापितः' इति ।


एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे । न तेन दृष्टं कविना समस्तं दारिद्यमेकं गुणकोटिहारि ॥

कालिदासः वदति - ‘‘यत्र बहवः गुणाः भवन्ति तत्र स्थितः एकः दोषः न लक्ष्यते । चन्द्रे गुणाः बहवः । अतः एव तत्रत्यः कलङ्कः जनैः प्रमुखदोषत्वेन न परिगण्यते’’ इति । कश्चन दारिद्र्यपीडितः कालिदासम् अधिक्षिपन् वदति - ‘‘कालिदासेन समस्तः प्रपञ्चः न अवलोकितः । अतः सः गुणसन्निपाते एकः दोषः निमज्जति इति वदति । किन्तु दारिद्र्यरूपः कश्चन प्रबलः दोषः अस्ति यश्च कोटिशः गुणान् अपि हरति’’ इति । सत्यं खलु एतत् ? लोके गुणवान् अपि जनः यदि दरिद्रः भवति तस्य उपेक्षा एव प्रचलति सर्वथा ।


अम्बा कुप्यति न मया न स्नुषया साऽपि नाम्बया न मया । अहमपि न तया न तया वद राजन् कस्य दोषोऽयम् ॥

कश्चन निर्धनः राज्ञः समीपम् आगत्य वदति - ‘‘महाराज ! मम गृहे वयं त्रयः स्मः - अहं मम पत्नी माता चेति । मम अम्बा कुप्यति । तत्र कारणं - न अहं, न वा मम पत्नी । मम पत्नी अपि कुप्यति । तस्य कारणं न अहं, न वा मम अम्बा । अहम् अपि कुप्यामि । मम पत्नी अम्बा वा तत्र न कारणम् । अस्माकं त्रयाणाम् अपि कोपस्य कारणीभूतः कः ?’’ इति । एतत् श्रुतवता राज्ञा अवगतं यत् त्रयाणाम् अपि कोपानां कारणं दारिद्र्यम् एव इति । अतः सः स्वस्य दारिद्र्यं भङ्ग्यन्तरेण कथितवते तस्मै निर्धनाय कवये प्रभूतं धनं दत्तवान् ।


शक्तिं करोति सञ्चारे शीतोष्णे मर्षयत्यपि । दीपयत्युदरे वह्निं दारिद्र्यं परमौषधम् ॥

दारिद्र्यं कष्टाय एव इति वदन्ति सर्वे । किन्तु दारिद्र्ये केचन गुणाः अपि सन्ति । दरिद्रः आहारधनादिनिमित्तं सञ्चरति बहुधा । एषा सञ्चारशक्तिः कुतः प्राप्ता तेन ? दारिद्र्यात् एव खलु ? दरिद्रे शीतोष्णसहनशक्तिः अपि वर्धते । यतः सहनं विना नान्या गतिः तस्य !! दरिद्रस्य उदरे जाठराग्निः सदा उद्दीप्तः एव भवति । एवं दारिद्र्यम् उत्तमम् औषधम् इव अपि आचरति !!!


एको हि दोषो गुणसन्निपाते निमज्जीतीन्दोरिति यो बभाषे । न तेन दृष्टं कविना समस्तं दारिद्र्यमेकं गुणकोटिहारि ॥

'गुणानां समूहे स्थितः एकः दोषः प्राधान्येन न भासते । चन्दे्र यद्यपि कलङ्कः अस्ति, तथापि शोभातिशयकारणतः सः हानिकारकत्वेन न परिगण्यते' इति कालिदासः उक्तवान् । तं निन्दति कश्चन दारिद्र्यपीडितः कविः - 'सः यद्यपि महाकविः, तथापि प्रपञ्चं समग्रं न परिशीलितवान् । दारिद्र्यरूपः दोषः अस्ति चेत् गुणसमूहे तस्य अदर्शनं दूरे तिष्ठतु, सः एकः एव कोटिगुणान् अपि अपहरति । अतः अनन्तगुणानां खनी अपि कश्चित् यदि निर्धनः भवति तर्हि सः अल्पाम् अपि पूजां न प्राप्नोति' इति ।


दारिद्र्यम्