चाटुचणकः(धनम्)

विकिसूक्तिः तः
(चाटुचणकः/धनम् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
धनम्

<poem>

अनृतं चाटुवादश्च धनयोगे महानयम् । सत्यं वैदुष्यमित्येष योगो दारिद्र्यकारकः ॥ असत्यम् उक्तं चेत्, प्रीतिकरं वचनम् उक्तं चेत् भवन्तः प्रभूतं धनं सम्पादयितुं शक्नुवन्ति । सत्यवादिता, पाण्डित्यप्राप्त्यर्थं प्रयत्नः च दारिद्र्यं जनयति । एवं धनसम्पादनमार्गः दारिद्र्यहेतुकमार्गश्च भवतां पुरतः अस्ति । यत् इष्यते तत् चेतुं स्वतन्त्राः भवन्तः ।


प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥

अनर्हः कश्चित् अकाले अधिकं धनं यदि प्राप्नुयात् तर्हि स्तुतिकाराणां वचनमेव यथार्थं मन्यते सः । ‘अहम् एव देवः, देवन्द्रो वा’ इति सः चिन्तयति । ‘अन्ये एते जनाः सर्वे कीटवत् सन्ति । एते सर्वे उपेक्षार्हाः’ इति चिन्तयति सः । धनमदः एतत्सर्वं कारयति ।


घृतं न श्रूयते कर्णे दधि स्वप्ने न दृश्यते । मुग्धे दुग्धस्य का वार्ता तक्रं शक्रस्य दुर्लभम् ॥

कश्चन निर्धनः । दारिद्र्यपूर्णं जीवनं तस्य । उपवासादिकं तस्य दैनन्दिनजीवनस्य अङ्गम् । एतादृशस्य जीवने दुग्ध-घृत-दध्यादयः नाम्ना अपि न श्रूयन्ते । तादृशः कश्चित् दुग्धादिविषये पत्न्या पृष्टः । प्रायः सद्योविवाहिता सती पतिगृहम् आगता स्यात् सा । पत्न्या पृष्टः सः निर्धनः अवदत् - ‘‘मुग्धे ! भवत्या मम गृहस्य स्थितिः सम्यक् ज्ञाता नास्ति इति अहं भावयामि । घृतम् इति शब्दः एव न श्रुतः मया । दधि तु स्वप्ने अपि न दृष्टम् । दुग्धस्य वार्ता एव नास्ति गृहे । तक्रं तु शक्रस्यापि दुर्लभम् । एवं स्थिते तक्रं गृहे दुर्लभम् इति तु पुनर्वक्तव्यं नास्ति’’ इति ।


क्षणमात्रं ग्रहावेशो याममात्रं सुरामदः । लक्ष्मीमदस्तु मूर्खाणाम् आदेहमनुवर्तते ॥

दुष्टग्रहाः यदि मानवं प्रविशेयुः तर्हि सः आवेशः अल्पकालं तिष्ठेत् । सुरा यदि केनचित् पीयेत तर्हि तज्जन्यः मदः यामं यावत् तिष्ठेत् । किन्तु अविवेकिभिः प्राप्तः लक्ष्मीमदः तु आजीवनं भवति । अविवेकिनं प्राप्तवती लक्ष्मीः निश्चयेन मदं जनयेत् एव । स च मदः यावज्जीवं भवेत् एव ।


लेखन्या गणकः पत्रे चोरः कुञ्चिकया गृहे । चित्रं वितनुतो रन्ध्रं ग्रहीतुं धनिनां धनम् ॥

चोरस्य सदा एका एव चिन्ता - ‘कस्य धनिकस्य धनं कथं चोरणीयम्’ इति । भित्तौ रन्ध्रं विधाय धनम् अपहरति सः । धनिकस्य कार्यालये स्थितः गणकः अपि धनम् अपहरति । तदपि रन्ध्रं विधाय एव। किन्तु तत् रन्ध्रं भित्तौ न भवति । प्रत्युत भवति गणनालेखने । गणनालेखने वञ्चनं कृत्वा गणकाः यथा, तथैव महोद्यमपतयः अपि वञ्चनापूर्णां गणनां प्रस्तूय सामान्यानां धनं मज्जयन्तः दृश्यन्ते एषु दिनेषु ।


लाभो हेतुः धनं साध्यं दृष्टान्तस्तु पुरोहितः । आत्मोत्कर्षो निगमनम् अनुमानेष्वयं विधिः ॥ - कलिविडम्बनम्

अनुभवबलात् व्याप्यवस्तुनः यत् ज्ञानं जायेत तत् अवलम्ब्य व्यापकवस्तुनः ज्ञानम् अनुमानम् । शास्त्रचर्चायाम् एषा अनुमानप्रक्रिया बहुधा उपयुज्यते । किन्तु अद्यत्वे दृश्यन्ते सर्वे धनेप्सवः । अतः जनानां लक्ष्यं भवति - कथमपि धनं सम्पादनीयम् इति । धनप्राप्त्या एव सुखादिलाभाः भवन्ति इति चिन्तयन्ति ते । पुरोहितादयः यथा अल्पश्रमेण धनं सम्पादयन्ति तथा करणीयम् अस्माभिः अपि इति तेषां सङ्कल्पः । एवं करणात् एव आत्मनः उत्कर्षः भवेत् इति भावयन्ति ते । एवम् आधुनिके काले हेतुसाध्यदृष्टान्तादीनां स्वरूपं सर्वथा परिवृत्तम् अस्ति ।


अविलम्बे कृत्यसिद्धौ मान्त्रिकैराप्यते यशः । विलम्बे विघ्नबाहुल्यं विख्याप्यावाप्यते धनम् ॥

विभिन्नाभिः समस्याभिः ग्रस्ताः जनाः समस्यानां परिहाराय कौशलवताम् अवलम्बनं कुर्वन्ति । ते कौशलवन्तः तु स्वार्थसाधने सुनिपुणाः । आत्मना उक्तस्य उपायस्य आश्रयणेन यदि अविलम्बेन कार्यं सिद्ध्येत् तर्हि ते स्वसामर्थ्यं ख्यापयन्तः कीर्तिम् आसादयन्ति । कार्यसिद्धिं प्राप्तवन्तः तु कृतज्ञताभावेन उपायसूचकाय धनादिकं दद्युः एव । यदि कार्यसिद्धौ विलम्बः स्यात् तर्हि ते उपायसूचकाः वदन्ति - विघ्नाः सन्ति बहवः इति । विघ्ननिवारणव्याजेन तैः प्रभूतं धनं स्वीक्रियते एव । एवं कार्यस्य सिद्धिः असिद्धिः वा तेषां लाभाय एव भवति । प्रायः न्यायवादि-वैद्य-पुरोहित-दैवज्ञ-मान्त्रिकादयः एतादृशाः एव भवन्ति ।


अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् । विस्मारयन्ति जातिं स्वां वराटाः पञ्चषाः करे ॥

धनस्य महिमा केन वा न ज्ञायते ? यस्य धनमदः भवति सः स्वस्य योग्यतादिकं विस्मरति । तन्नाम धनं तादृशं विस्मरणं कारयति । विदुषां विषये अनादरताम् अपि कारयति तदेव धनम् । यस्य धनमदः भवति सः चिन्तयति यत् मम शास्त्रज्ञानम् उत्कृष्टम् अस्ति, शास्त्राध्यापन-योग्यता अपि मम अस्ति इति । एवं यस्य हस्ते कानिचन नाणकानि भवेयुः सः किं किं न कुर्यात् ? अहो, धनप्राबल्यविजृम्भणं लोके !

"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(धनम्)&oldid=14581" इत्यस्माद् पुनः प्राप्तिः