चाटुचणकः(शिवः)

विकिसूक्तिः तः
(चाटुचणकः/शिवः इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search


अर्धं दानववैरिणा गिरिजयाप्यर्धं शिवस्याहृतं देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति ।
गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत् त्वां मां च भिक्षाटनम् ॥

कदाचित् कश्चन अर्थी राजानं याचितुम् आगतः । सः अवदत् - 'महाराज ! लोके भगवतः शिवस्य अभावः जातः अस्ति' इति ।
'कथमेतत् ?' इति पृष्टं राज्ञा ।
'शिवस्य अर्धं विष्णुना स्वीकृतं, पुनरर्धं पार्वत्या हृतम् । (अर्धनारीश्वरत्वात्) एवं विष्णुना पार्वत्या च अर्धं पुनरर्धं च हृतम् इत्यतः शिवस्य अभावः समुत्पन्नः ।'
'एवं तर्हि शिवं श्रितवतां गङ्गाचन्द्रादीनां का गतिः ?' - राजा अपृच्छत् ।
'गङ्गा सागरं गता । चन्द्रकला आकाशम् अगमत् । सर्पः पातालम् अगच्छत् । शिवस्य सर्वज्ञत्वम् ईश्वरत्वं च त्वां प्राप्नोत् । वराकं भिक्षाटनं तु मया प्राप्तम्' इति अवदत् अर्थी ।
तस्य चाटूक्तिं श्रुतवान् राजा प्रभूतं धनं दत्तवान् इति किं पुनर्वक्तव्यम् ?



सन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदीं विलज्जशिरसा तच्चापि सोढं मया ।
श्रीर्यातामृतमन्थने यदि हरिं कस्माद्विषं भक्षितम् मा स्त्रीलम्पट मा स्पृशेति गदितो गौर्या हरः पातु वः ॥

शिवस्य पत्नी पार्वती । सा पतिव्यवहारे स्त्रीलम्पटत्वं पश्यति । सा पतिं वदति - 'जनानां पुरतः एव बद्धाञ्जलिः सन् त्वं सन्ध्यां याचसे । नदीं गङ्गां निर्लज्जं शिरसि धरसि । अमृतमन्थनावसरे विष्णुना लक्ष्मीः प्राप्ता इत्यतः विषण्णमनस्कः सन् त्वं विषं पीतवान् । एवं तव स्त्रीलम्पटत्वं नितराम् असह्यम् । अतः मां मा स्पृश' इति ।
वस्तुतः तु शिवेन सन्ध्या (स्त्री) नमस्कृता कर्तव्यबुद्ध्या । लोकोपकाराय एव तेन गङ्गा (स्त्री) शिरसि धृता । घोरं विषम् अपि तदर्थम् एव निर्भीति पीतम् । किन्तु पार्वती अत्र सर्वत्र स्त्रीलम्पटत्वं पश्यति !! सन्देहदग्धमनस्काः एवमेव खलु चिन्तयन्ति ?



न विवाहितः कुमारः नास्ति द्वितीयो बलीवर्दः ।
स्वयमपि भिक्षाचारी तदिह कपर्दीति दुर्वादः ॥

शिवः कपर्दी इति निर्दिश्यते । कपर्दः इत्यस्य अर्थद्वयं - शिवस्य जटाजूटः, अल्पमूल्यकः नाणकविशेषः चेति । शिवस्य कपर्दी इति नाम तु जटाजूटकारणतः । तथापि तस्यैव पदस्य अन्यम् अर्थं मनसि निधाय चाटुश्लोककारः कश्चित् वदति - 'शिवस्य पुत्रः अविवाहितः । (अतः एव कुमारः इति तस्य नाम !) एकः एव वृषभः अस्ति तन्निकटे । अपरस्य क्रयणे धनं नास्ति तस्य । स्वयं च भिक्षाटनं करोति उदरपूरणाय । अतः एव ‘कपर्दी’ (अल्पधनयुक्तः) इति निर्दिश्यते सः' इति ।


 
एषा ते हर का सुगात्रि कतमा मूर्घ्नि स्थिता किं जटा हंसः किं भजते जटां न हि शशी चन्द्रो जलं सेवते ?
मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते दृश्यं यो विनिगूहते त्रिपथगां पायात्स वः शङ्करः ॥

शिवः शिरसि गङ्गां धरति । शिरसि अन्यस्याः स्थापनं पत्नी पार्वती न सहते । अतः कदाचित् पार्वती पृष्टवती - 'एषा का भवत्समीपे ?' इति । 'कस्याः विषये पृष्टं भवत्या ?' इति शिवः अपृच्छत् । 'या भवतः शिरसि तिष्ठति तस्याः विषये पृच्छामि ।' 'तत्र तु जटा अस्ति !' 'किं जटायां हंसः विहरेत् ?' 'हंसः क्व ? स तु चन्द्रः ।' 'चन्द्रः किं जले तिष्ठति ?' 'न तत्र जलम् । भस्मनः छटा दृश्यते तत्र ?' 'किं भस्मनि तरङ्गाः उत्पद्यन्ते ?' एवं शिरसि स्थितां गङ्गां निगूहितुम् इच्छन् शिवः सर्वान् पातु ।



सेवां नो कुरुते करोति न कृषिं वाणिज्यमस्यास्ति नो पैत्र्यं नास्ति धनं न बान्धवबलं नैवास्ति कश्चिद्गुणः ॥
द्यूतस्त्रीव्यसनं न मुञ्चति तथापीशस्तदस्मात्फलं किं मे स्यादिति चिन्तयन्निव कृशो भृङ्गी चिरं पातु वः ॥

भृङ्गी शिवस्य सेवकः । स्वामिना योग्यं वेतनं दीयेत चेदेव भृत्यस्य सन्तोषः । स्वामी शिवः न क्वापि उद्योगं करोति । कृष्यादिकार्यमपि न करोति । वाणिज्यादिवृत्तिरपि शिवस्य नास्ति । पित्रार्जिता सम्पत्तिः तु शून्या एव । बान्धवाः अपि न हि धनिकाः । स्त्रीव्यसनम् अपि अस्ति । अतः एतस्य स्वामिनः हस्ते कदापि धनं भवितुं नार्हति । एतादृशः अकिञ्चनः जनः मया स्वामित्वेन वृतः !! एषः मह्यं वेतनत्वेन किं वा दद्यात् इत्येवं चिन्तयन् भृङ्गी दिने दिने कृशतां प्राप्नुवन् अस्ति ।



मतर्जीव किमेतदङ्गुलिपुटे तातेन गोपाय्यते
वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् ।
मात्रैवं प्रहिते गुहे विघटयत्याकृष्य सन्त्याञ्जलिम्
शम्भोर्भिन्नसमाधिरुद्धरभसो हासोद्गमः पातु वः ॥

कदाचित् शिवः ध्यानमग्नः आसीत् । तदा सः करस्य उपरि करं स्थापयित्वा उपविष्टः आसीत् । तत् दृष्ट्वा बालकः गुहः मातरं पृष्टवान् - 'अम्ब ! तातस्य अङ्गुलिपुटे किम् अस्ति ?' इति । तदा विनोदाय पार्वती उक्तवती - 'वत्स ! तत्र स्वादुफलम् अस्ति ।' गुहेन पृष्टम् - 'तत् सः मह्यं किमर्थं न ददाति ?' पार्वत्या उक्तम् - 'भवान् एव गत्वा तत् स्वीकरोतु' इति । गुहः झटिति गत्वा पितुः करं गृहीत्वा आकृष्टवान् । एतेन शिवस्य ध्यानस्थितिः भग्ना । पुत्रस्य कृत्यं दृष्टवतः तस्य हासः आगतः । स च हासः भवतः सर्वान् रक्षतु ।




कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेऽहम्
केकामेकां कुरु पशुपतिर्नैव दृष्टे विषाणे ।
स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवायाः
गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥

कदाचित् कुत्रापि गतः शिवः गृहं प्रत्यागतः । द्वारं पिहितम् आसीत् । शिवः यदा द्वारशब्दं कृतवान् तदा पार्वती अपृच्छत् - 'कः भवान् ?' शिवः अवदत् - 'अहं शूली ।' शूली इत्यस्य शूलरोगयुक्तः इत्यर्थं कल्पयित्वा पार्वती अवदत् - 'वैद्यसमीपं गच्छतु ।' शिवः अवदत् - 'अहं नीलकण्ठः ।' मयूरस्यापि कण्ठः नीलः । अतः पार्वती नीलकण्ठपदस्य मयूरः इत्यर्थं कल्पयित्वा अवदत् - 'भवान् नीलकण्ठः (मयूरः) चेत् एकां केकां करोतु' इति । शिवः अवदत् - 'अहं पशुपतिः ।' पार्वती अवदत् - 'पशूनां पतिः चेत् भवतः शृङ्गौ कुत्र ?' इति । 'अहं स्थाणुः अस्मि' - शिवः अवदत् । स्थाणुः इत्यस्य शाखादिरहितः शुष्कवृक्षकाण्डभागः इत्यपि अर्थः । अतः पार्वती वदति - 'स्थाणुः न वदति' इति । 'अहं शिवायाः पतिः' इति वदति शिवः । शिवा नाम शृगाली अपि । अतः पार्वती वदति - 'भवान् शिवायाः पतिः चेत् अरण्यं गत्वा तत्र वासं करोतु' इति । एवं पार्वती यं वचनैः जितवती सः शिवः भवतः सर्वान् रक्षतु ।




रामाद्याचय मेदिनीं धनपर्तेर्बीजं बलाल्लाङ्गलम्
प्रेतेशान्महिषं तवास्ति वृषभः फालं त्रिशूलं तव ।
शक्ताहं तव चान्नदानकरणे स्कन्दोऽस्ति गोरक्षणे
खिन्नाहं हर भिक्षया कुरु कृषिं गौरीवचः पातु वः ॥

कदाचित् पार्वती शिवम् उक्तवती - 'भवतः भिक्षायाचनं दृष्ट्वा अहं खिन्ना अस्मि । अतः कृपया कृषिं करोतु' इति । तदा शिवः अपृच्छत् - 'किं कृषिः सुका ? तदर्थं नास्ति भूमिः अस्माकम् । जीबहलादयः न सन्ति । वृषभाः न सन्ति । वृषभाः यदि भवेयुः तर्हि तेषां पोषणरक्षणादिकं करणीयम् । किम् एतत्सर्वं शक्यम् ?' इति । तदा पार्वती अकैकम् अपि समस्या परिहरन्ती अवदत् - 'परशुरामः समग्रभूमण्डलमेव स्ववशीकृतवान् अस्ति । ततः भूमिं प्राप्नोतु । कुबेरः धनधान्याधिपः । सः भवतः मित्रम् । ततः बीजार्थं धान्यं प्राप्नोतु । यमात् महिषं प्राप्नोतु । भवतः वृषभः अस्ति एव । अतः तौ एव हले योजयामः । भवतः त्रिशूलं हलाग्रं (फालं भवतु) कृषिसमये आहारम् आनीय दातुं गोपोषणार्थं च अहम् अस्मि । स्कन्दः गोरक्षणं करिष्यति । एवं विशेषव्ययं विना कृषिः शक्या' इति ।
एतादृशानि जौरीवचनानि भवतः सर्वान् रक्षन्तु ।



स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ ।
दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेत् गृहे ॥

शिवः पञ्चभिः मुखैः युक्तः । पञ्च अपि मुखानि खादनम् इच्छन्ति । शिवस्य एकः पुत्रः गजाननः । अतः एव गजवत् प्रभूतं खादति सः । अपरः पुत्रः षडाननः । एवं पूरणीयानि उदराणि बहूनि । ईश्वरः तु स्वयं दिगम्बरः, अतः एव अकिञ्चनः । ‘तथापि तस्य जीवनं कथं प्रचलति’ इति वा भवतां सन्देहः ? पत्न्याः अन्नपूर्णायाः कृपा । अन्नपूर्णा सा सर्वेभ्यः प्रभूतम् अन्नं दातुं समर्था । एवं पत्नीकृपातः शिवः सुखेन जीवति !



विष्णोरागमनं निशम्य सहसा कृत्वा फणीन्द्रं गुणं
कौपीनं परिधाय चर्म कठिनं शम्भौ पुरो धावति ।
दृष्ट्वा विष्णुरथं सकम्पहृदयः सर्पोऽपतद्भूतले
कृत्तिर्विस्खलिता ह्रिया नतमुखो नग्नो हरः पातुः वः ॥

कदाचित् विष्णुः शिवस्य गृहम् आगतवान् । विष्णोः आगमनं ज्ञात्वा शिवः कठिनचर्म धृत्वा तदुपरि सर्पं रज्जुत्वेन बद्ध्वा स्वागतार्थं वेगेन गतवान् । विष्णोः वाहनं गरुडः खलु ? तं दृष्ट्वा सर्पः नितरां भीतः । ततः सः पलायितवान् । रज्जुरूपस्य सर्पस्य अभावतः शिवस्य कटौ स्थितं चर्म अपतत् । तदा शिवस्य कीदृशी स्थितिः स्यात् इति भवन्तः एव ऊहन्ताम्... । एतया घटनया लज्जाकारणतः अवनतमुखः सन् स्थितः शिवः भवतः सर्वान् पातु ।




हलमगु बलस्यैकोऽनड्वान् हरस्य न लाङ्गलम्
क्रमपरिमिता भूमिविर्र्ष्णोः न गौर्न च लाङ्गलम् ।
प्रभवति कृषिर्नाद्याप्येषां द्वितीयगवं विना
जगति सकले नेदृग्दृष्टं दरिद्रकुटुम्बकम् ॥

बलरामः हलवान्, किन्तु तस्य वृषभः नास्ति । अतः सः हलयुक्तोऽपि कृषिं तु कर्तुं न शक्नोति । शिवस्य वृषभः अस्ति, किन्तु न हलम् । तस्मात् सोऽपि कृषिं कर्तुं न शक्नोति । विष्णोः अल्पा भूमिः अस्ति, (त्रिपादपरिमिता) किन्तु न वृषभः, न वा लाङ्गलम् । एवम् एते त्रयः अपि अन्यसाहाय्यं विना स्वातन्त्र्येण कृषिं कर्तुं न अर्हन्ति । एवं साधनराहित्यरूपेण दारिद्र्येण युक्तं कुटुम्बकं जगति अन्यत्र न दृश्यते प्रायः ।



स्वयं महेशः श्वशुरो नगेशः
सखा धनेशः तनयो गणेशः ।
तथापि भिक्षाटनमेव शम्भोः
बलीयसी केवलमीश्वरेच्छा ॥

ईश्वरः अकिञ्चनः, भिक्षया जीवनं करोति इति सर्वे जानन्ति एव । किन्तु तस्य योग्यता न सामान्या । सः स्वयं जगदीश्वरः । कस्यचित् राज्यस्य प्रभोः एव कियत् ऐश्वर्यं भवति इति वयं जानीमः । जगतः एव ईश्वरः महत् र्एश्वर्यं प्राप्तुम् अर्हेत् एव । तस्य श्वशुरः हिमालयः रत्नानाम् आकरः । धनदः कुबेरः तस्य मित्रम् । आदिपूज्यः गणाधिपः तस्य पुत्रः । एवम् अत्युत्कृष्टा पारिवारिकी स्थितिः अस्ति चेदपि शिवः अद्यापि भिक्षाटनेन जीवनं यापयति । सर्वं खलु विधिविलसितम् !



कलङ्की शीतांशुः कुटिलहृदया सापि तटिनी
पशुर्नन्दी सोऽयं कठिनहृदया शैलतनया ।
निषेधादन्येषां सततसमवेते दयितया
कृतां वा मद्भक्तिं भव भवति विज्ञापयति कः ॥

कश्चन भक्तः परशिवे भक्तिम् अकरोत् । किन्तु सा भक्तिः भगवता न ज्ञायते इति विषादः तस्य । भक्तस्य भक्तितीव्रता भगवता ज्ञायेत एव खलु इति चिन्तयेयुः भवन्तः । किन्तु कविः वदति - 'मद्भक्तिज्ञानाय अनुकूलः परिसरः नास्ति भगवतः समीपे । शिवं परितः ये सन्ति ते नहि अनुकूलाः । भगवतः पार्श्वे चन्द्रः, गङ्गा, नन्दी, पार्वती इत्यादयः भवन्ति । तेषु चन्द्रः तु कलङ्कित्वेन विख्यातः । गङ्गा तु वक्रगतियुक्ता । नन्दी तु स्वयं पशुः (अतः विवेकहीनः ) पार्वती तु पर्वतपुत्री । पर्वतात् जातायाः हृदयं कठिनम् एव खलु भवेत् । शिवः सदा पत्न्या युक्तः एव भवति (अर्धनारीश्वरत्वात्) इत्यतः अन्यः तत्समीपं गन्तुं नार्हति । अतः एव मम भक्तिं शिवः अवगन्तुं नार्हति' इति ।



कलङ्की शीतांशुः कुटिलहृदया सापि तटिनी पशुर्नन्दी सोऽयं कठिनहृदया शैलतनया ।
निषेधादन्येषां सततसमवेते दयितया कृतां वा मद्भक्तिं भव भवति विज्ञापयति कः ॥

कश्चन भक्तः शिवम् उद्दिश्य एवं वदति - 'भगवन् ! अहम् अनन्यां भक्तिं वहामि भवति । किन्तु सा च भक्तिः भवता न ज्ञायते । मद्भक्तिं भवन्तं कोऽपि न निवेदयति । भवन्तं परितः ये सन्ति ते गुणेन न उत्कृष्टाः । चन्द्रः स्वयं कलङ्कग्रस्तः । गङ्गा तु कुटिलहृदया । नन्दी तु अज्ञः पशुः । पार्वती तु कठिनहृदया । (पर्वतस्य पुत्री पर्वतसदृशी एव खलु स्यात् ?) एतादृशाः मम भक्तिं भवन्तं कथं वा निवेदयेयुः ? अर्धनारीश्वरः भवान् तु सदा पत्न्या आश्लिष्टः एव भवति । तस्मात् भवान् अपि मम भक्तिम् अभिज्ञातुं न शक्नोति ।'



श्रुत्वा षडाननजनुर्मुदितान्तरेण पञ्चाननेन सहसा चतुराननाय ।
शार्दूलचर्म भुजगाभरणं सभस्म दत्तं निशम्य गिरिजाहसितं पुनातु ॥

'षण्मुखः जातः' इत्येतां वार्तां श्रुत्वा नितरां सन्तुष्टः शिवः वार्ताम् आनीतवते ब्रह्मदेवाय शार्दूलचर्म, भस्म, सर्पाभरणं च अपनीय दत्तवान्’ इत्येषा वार्ता पार्वत्या श्रुता । (शिवसमीपे दानयोग्यम् आसीत् खलु तावन्मात्रमेव !) पत्युः एतादृशं विलक्षणं व्यवहारं श्रुत्वा सा मनसा हसितवती ।



अत्तुं वाञ्छति वाहनं गणापतेराखुं क्षुधार्थः फणी
तञ्च क्रौञ्चपतेः शिखी च गिरिजासिंहोऽपि नागाननम् ।
गौरी जह्रुसुतामसूयति कलानाथं कपालानलो
निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम् ॥

शिवः हालाहलं यत् पीतवान् तस्य कारणं भङ्ग्यन्तरेण विवृणोति अपरः कविः – गणपतेः वाहनं खादितुम् इच्छति बुभुक्षितः सर्पः । तं च सर्पं खादितुम् इच्छति मयूरः, यश्च षणमुखस्य वाहनम् । गिरिजायाः वाहनं सिंहः गजमुखं गणपतिं दृष्ट्वा क्रोधेन सदा गर्जति । तं च मारयितुम् इच्छति । गौरी सपत्न्याः जाह्नव्याः उपस्थितिं न सहते । तथैव चन्द्रस्य स्थितिं कपालानलः न सहते । एतस्य सर्वस्य कारणतः शिवस्य कुटुम्बे सदा कलहः । एतां कलहस्थितिं कथमपि निवारयितुम् अशक्नुवन् शिवः निर्वेदं प्राप्य हालाहलं पीतवान् ।



वृद्धोक्षः प्रपलायते प्रतिदिनं सिंहावलोकाद्भिया
पश्यन् मत्तमयूरमन्तिकचरं भूषाभुजङ्गव्रजः ।
कृत्तिं कृन्तति मूषकोऽपि रजनौ भिक्षान्नमाभक्षयन्
दुःखेनेति दिगम्बरः स्मरहरो हालाहलं पीतवान् ॥

हालाहलं घोरं विषं, प्राणापहारकं च । तत् शिवः किमर्थं पीतवान् इति किं भवन्तः जानन्ति ? तस्य कारणं वदति कश्चन चाटुपद्यकारः इत्थम् –
पार्वत्याः वाहनं सिंहं दृष्ट्वा शिवस्य वाहनं वृद्धवृषभः पलायते । षण्मुखस्य वाहनं मयूरं दृष्ट्वा भूषणार्थं धृताः सर्पाः अपि पलायन्ते । गणपतेः वाहनं मूषिकः भिक्षया प्राप्तम् अपि अन्नं रात्रौ खादन् चर्म दन्तैः विदारयन् नाशयति । एवं गृहे अनेके क्लेशाः । एतत्सर्वं सोढुम् अशक्नुवन् शिवः हालाहलं पीतवान् । यः क्लेशबाहुल्यं सोढुं न शक्नोति तस्य आत्महत्या एव खलु शरणम् ?



एका भार्या समररसिका निम्नगा च द्वितीया
पुत्रोऽप्येको द्विरदवदनो ष्ण्मुखश्च द्वितीयः ।
नन्दी भृङ्गी च कपिवदनो वाहनं पुङ्गवेशः
स्मारं स्मारं स्वगृहचरितं भस्मदेहो महेशः ॥

विष्णोः तु गृहे सुखं नास्ति । किं शिवस्य तत् अस्ति ? 'न' इति वदति कश्चन चाटुश्लोककारः । शिवस्य गृहक्लेशः एवम्- शिवस्य पत्नी दुर्गा सर्वदा युद्धासक्ता । यत्र युद्धं तत्र गन्तुकामा । अपरा गङ्गा सर्वदा अधोगतिम् एव इच्छति । (नदी अधोमुखं प्रवहति खलु ? ) एकः पुत्रः गजमुखः । अतः एव असुन्दरः । अपरः षणमुखः सन् लोकविलक्षणतया राजते । गणेषु अन्यतमः भृङ्गी कपिवदनः । वाहनं च वृद्धवृषभः । एवं गृहे सुखहेतुकं किमपि नास्ति सर्वथा । अतः एव वैराग्यं प्राप्य शिवः भस्म धृत्वा श्मशानवासी जातः ।



उदरद्वयभरणभयात् अर्धाङ्गाहितदारः ।
यदि नैव तस्य सुतः कथमद्यापि कुमारः ॥

शिवः अर्धनारीश्वरः इति तु सर्वे जानन्ति । किन्तु सः किमर्थं तादृशं रूपं धृतवान् इति तु केचन एव जानीयुः ।
दारिद्र्यम् एव अर्धनारीश्वरत्वस्य कारणम् । यदि पत्नी पार्थक्येन स्यात् तर्हि उदरद्वयं पूरणीयं भवति – स्वस्य पत्न्याः चेति । अतः एव शिवः अर्धनारीश्वरत्वं प्राप्य अपरोदरस्य पूरणस्य कष्टं निवारितवान् । ‘एवं न’ इति वदेयुः भवन्तः । यदि एवं न स्यात् तर्हि स्वस्य पुत्रस्य विवाहः अद्यावधि किमर्थं तेन न निर्वर्तितः ? तदीयः पुत्रः अद्यापि किमर्थं 'कुमारः' (अविवाहितः) एव तिष्ठति ? अतः सिद्धं यत् स्नुषा पोषणीया भवेत् इत्यतः शिवः पुत्रस्य विवाहं न निर्वर्तितवान् इति, पत्नी पोषणीया भवेत् इत्यतः सः अर्धनारीश्वरः जातः इति च ।



सहस्रास्यो नागः प्रभुरपि मतः पञ्चवदनः
षडास्यो हन्तैकस्तनय इतरो वारणमुखः ।
सदा भैक्ष्यं शश्वत्प्रभवतु कथं वर्तनमिति
श्वसत्यां पार्वत्यामथ जयति शम्भुः स्मितमुखः ॥

शिवस्य गृहस्य स्थितिः विलक्षणा । तदीयः सर्पः सहस्रमुखः । शिवः स्वयं पञ्चमुखः । एकः पुत्रः षण्मुखः । अपरः गजमुखः । एतेषां सर्वेषाम् उदरपूरणं कथम् इति पार्वत्याः चिन्ता । आयः तु कोऽपि नास्ति । भिक्षा एव शरणं सदापि । 'कथं गृहपोषणम् ?' इति पार्वती शिवं पृच्छति दीर्घं निश्श्वसती । शिवः तु निरातङ्कः सन् हसति !!

"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(शिवः)&oldid=15919" इत्यस्माद् पुनः प्राप्तिः