पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (०२ अपशब्दाभासः)

विकिसूक्तिः तः
(चित्रपद्धतिस्त्रिंशी (०२ अपशब्दाभासः) इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

२. शृणु ते पादुके चित्रं चित्राभिर्मणिभिर्विभोः । युगक्रमभुवो वर्णान् युगपद्वहसे स्वयम् ॥

पदविभागः[सम्पाद्यताम्]

शृणु, ते, पादुके, चित्रम्, चित्राभिः, मणिभिः, विभोः । युग-क्रम-भुवः, वर्णान्, युगपत्, वहसे, स्वयम् ।

प्रतिपदार्थः[सम्पाद्यताम्]

पादुके – हे पादुके ! ते – तव, चित्रम् – वर्णचित्रं, शृणु – पश्य । या – या त्वं, मणिभिः – रत्नैः,
विभोः – श्रीरङ्गनाथस्य, युगक्रमभुवः – कृतादियुगेषु क्रमशः जायमानान्, वर्णान् - सितादिवर्णान्,
युगपत् – एककाले, स्वयम् – स्वतः, वहसे – बिभर्षि ।
श्लोकस्य अस्य उत्तरार्धस्य अर्थान्तरम् अपि अस्ति । यथा – युग – यमकालङ्कारेषु वर्णानां युग्मतया,
क्रम – क्रमेण तत्तद्बन्धविचित्राणां यथापेक्षितं तेन क्रमेण च, भुवः – विद्यमानान्, वर्णान् – अक्षराणि,
युगपत् – एककाले, स्वयं वहसे – स्वतः वहसि ।

तात्पर्यम्[सम्पाद्यताम्]

'हे रङ्गनाथपादुके ! त्वयि दृश्यमानम् एतद् अद्भुतं पश्य । (अत्र ‘शृणु’ इति पदस्य ‘पश्य’ इति अर्थः क्रियते
व्याख्यानकारैः ।) भगवान् कृतयुगे श्वेतवर्णः, त्रेतायां रक्तवर्णः, द्वापरे रुक्मवर्णः, कलौ च कृष्णवर्णः भूत्वा
एकैकस्मिन् युगे एकैकेन वर्णेन अवतरति । किन्तु, त्वं भगवतः सर्वान् एतान् वर्णान् त्वयि स्थितैः विविधवर्णैः
रत्नैः युगपद् वहसे । अपि च त्वां स्तोतुकामस्य मम तवैव अनुग्रहेण श्लोकेषु अक्षराणां पदानां च बन्धाः
अनेकान् अर्थविशेषान् वहन्तः मम मुखात् स्वयमेव आविर्भवन्ति । तादृशीं वाचं मम त्वं स्वयम् अनुगृह्णासि ।
न खलु अहं स्वशक्त्या किमपि स्तोत्रं विदधामि' । इति कविः विनयेन वदति ।

विशेषः[सम्पाद्यताम्]

 
अस्मिन् श्लोके शब्दचित्रम् अनुप्रासः, अर्थचित्रं च पादुकायाः एकेन रूपेण युगपद् बहुवर्णप्रदर्शनम् । यदि
‘शृणु ते’ इति पृथक्पदे प्रमादेन ‘शृणुते’ इति एकपदमिव पठ्येते, तदा ‘अपशब्दाभासः’ इति शब्दचित्रम्
अपि द्रष्टुम् शक्यम् अत्र ।