पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (१० अपुनरुक्तव्यञ्जनम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

१०. बाढाघालीझाटतुच्छे गाथाभानाय फुल्लखे ।
समाधौ शठजिच्चूडां वृणोषि हरिपादुके ॥

पदविभागः[सम्पाद्यताम्]

बाढ-अघ-आली-झाट-तुच्छे, गाथा-आभानाय, फुल्ल-खे, समाधौ, शठजित्-चूडाम्,
वृणोषि, हरि-पादुके ।

प्रतिपदार्थः[सम्पाद्यताम्]

हरि-पादुके – हे हरि-पादुके! (त्वम्), बाढ- दृढानाम् अघ- पापानाम्, आली- आवल्याः,
झाट - सम्बन्धेन, तुच्छे – शून्ये, गाथाभानाय – द्राविडगाथायाः प्रकाशनाय, फुल्ल - विकसिते,
खे - मनइन्द्रियसहिते, समाधौ- भगवद्ध्यानरूपसमाधौ, शठजित्-चूडाम् - श्रीवकुलाभरणसूरेः
शिरः, वृणोषि – वरयसे ।

तात्पर्यम्[सम्पाद्यताम्]

निरन्तरं भगवद्ध्यानं कुर्वतः नम्माळ्वार् इति ख्यातस्य वकुलाभरणसूरेः समाधिस्थितौ तस्य शिरसि
विराजते इयं पादुका । हरिः आश्रितानां पापानि हरति । तद्वत् तस्य पादुका अपि ध्यायिनां मनसि
समाधिस्थितौ सांसारिकदुःखानि सर्वाणि अपनुदति । तेषां शिरसि स्थित्वा सा तथा अनुग्रहं करोति
यथा तेषां मनः प्रसन्नं भूत्वा तत्र दिव्यसूरेः वकुलाभरणस्य तिरुवाय्मोळिनामकश्रीसूक्तयः प्रकाशेरन् ।

विशेषः[सम्पाद्यताम्]

अत्र ‘अपुनरुक्तव्यञ्जनम्’ इति शब्दचित्रम् । श्लोके एकैकमपि व्यञ्जनम् एकवारमेव प्रयुक्तं दृश्यते ।