पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (१६ द्विचतुष्कचक्रबन्धः)

विकिसूक्तिः तः

१६.भरताराधितां तारां वन्दे राघवपादुकाम् ।
भवतापाधितान्तानां वन्द्यां राजीवमेदुराम् ॥

पदविभागः[सम्पाद्यताम्]

भरत-आराधिताम्, ताराम्, वन्दे, राघव-पादुकाम्, भव-ताप-
आधि-तान्तानाम्, वन्द्याम्, राजीव-मेदुराम् ।

प्रतिपदार्थः[सम्पाद्यताम्]

भरत-आराधिताम् – भरतेन पूजिताम्, ताराम् – उत्कृष्टां, भव-ताप-आधि-
तान्तानां – संसारतापत्रयात् जायमानेन मनोरोगेण क्लेशितानां, वन्द्याम् – स्तुत्यां,
राजीव-मेदुराम् – (पूजाकाले समर्पितैः) कमलपुष्पैः पूर्णां, राघव-पादुकाम् –
रामस्य पादुकां, वन्दे – नमामि ।

तात्पर्यम्[सम्पाद्यताम्]

पूर्वस्मिन् श्लोके उक्ता पादुकायाः लोकरक्षणशक्तिः भगवतः परव्यूहरूपयोः यथा तद्वत्तस्य
विभवदशायामपि भवति । अतः एव बुद्धिमान् भरतः विभवदशायामपि विद्यमानां तस्याः तां
शक्तिं जानन्नेव तामेव भगवतः प्रतिनिधित्वेन प्रार्थ्य सिंहासने निवेश्य च, राज्यभारं निरूढवान् ।

विशेषः[सम्पाद्यताम्]

द्विचतुष्कचक्रबन्धः इति अस्य शब्दचित्रस्य नाम । अस्मिन् चक्रबन्धे अष्टौ कोणाः सन्ति ।
श्लोकस्य उभयोरपि अर्धयोः विषमस्थाने स्थितानि अक्षराणि एषु अष्टसु कोणेषु निबद्धानि ।
एतैः सह बन्धस्य द्वयोः चक्रयोः निबद्धानि श्लोके समस्थानेषु स्थितानि अक्षराणि गोमूत्रिकाक्रमेण
पठ्यन्ते । (चित्रं पश्यत ।)