पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (२१ अर्धभ्रमकबन्धः)

विकिसूक्तिः तः
(चित्रपद्धतिस्त्रिंशी (२१ अर्धभ्रमकबन्धः) इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

२१. लोकतारा कामचारा कविराजदुरावचा ।
तारा गते पादराऽऽम राजते रामपादुका ॥

पदविभागः[सम्पाद्यताम्]

लोक-तारा, काम-चारा, कवि-राज-दुरावचा, तारा, गते, पाद-रा,
आम, राजते, राम-पादुका ।

प्रतिपदार्थः[सम्पाद्यताम्]

लोक-तारा – आश्रितानां जनानां तारिणी, कामचारा – स्वेच्छया सर्वत्र सञ्चरन्ती,
कवि-राज-दुरावचा – वाल्मीकिव्यासादिकविसार्वभौमैरपि पूर्णतया अस्तुता, गते –
(भगवतः) सञ्चारे, तारा – उत्कृष्टा / उच्चध्वनियुता, पादरा – स्वकिरणान् ददती च,
रामपादुका – श्रीरामस्य पादुका, आम – एवं खलु, राजते – विराजते !

तात्पर्यम्[सम्पाद्यताम्]

पूर्वतनेषु त्रिषु श्लोकेषु भक्तिप्रावण्येन पादुकां स्तुत्वा, मध्ये मध्ये स्वलाभमपि प्रस्तूय,
इष्टार्थान् प्रार्थ्य च, तस्याः गुणान् स्मारं स्मारं तां पुनः स्तौति कविः । आश्रितानां
सुलभो भूत्वा अस्मिन् लोके मर्त्यानां मध्ये मनुष्यो भूत्वा अवतीर्णो रामः । तस्यानुरूपं
सौलभ्यादिगुणवती हे पादुके! तव महिमानं कथं स्तौमि? पुनः पुनः भगवतः महिमा इव
तवापि इत्येव खलु वक्तुं शक्यते? लोके कविश्रेष्ठाः इति ख्यातिमन्तः व्यासवाल्मीक्यादयः
अपि पूर्णतया तव गुणान् स्तोतुम् असमर्थाः एव । तथा स्थिते किमर्थं त्वया अयं प्रयासः
क्रियते इति चेत्, तवैवानुग्रहेण जातेन तव गुणानाम् अनुसन्धानेन इयं स्तुतिः प्रवृत्ता ।
तव दयागुणः आश्रितान् अन्विष्य गत्वा तान् रक्षितुं त्वाम् प्रचोदयति । भगवानिव सङ्कल्पमात्रेण
सर्वत्र सञ्चरितुं समर्था त्वमपि । तव सञ्चारस्तु अत्युत्कृष्टः, अपरिमितान् इष्टार्थान् विदधाति च ।
यदा त्वम् आगच्छसि तदा तव ध्वनिः भक्तानां प्रार्थनाः वितरति, भयं च निवारयति । तथा च
तव किरणाः आश्रितानाम् अज्ञानान्धकारं वारयित्वा भगवन्तं यथावद् ज्ञातुम् उपकरणं भवति ।
तव गम्भीरध्वनिः भगवतः आगमनं निवेदयन् आश्रितान् तदर्थं सज्जान् करोतीव ।
 

विशेषः[सम्पाद्यताम्]

अस्मिन् श्लोके अर्धभ्रमकबन्धः इति शब्दचित्रम् अस्ति । चित्रे वामतो दक्षिणम् अष्टौ कोष्ठाः,
तथैव उपरिष्टाद् अधः अष्टौ कोष्ठाः सन्ति । आहत्य यन्त्रे ८ x ८ इति ६४ कोष्ठेषु श्लोकः द्विवारं
लिखितः भवति । वामतो दक्षिणं क्रमशः चतसृषु पङ्क्तिषु श्लोकस्य चत्वारः पादाः लभ्यन्ते ।
पुनश्च व्युत्क्रमेण चतसृषु अधस्तनपङ्क्तिषु अन्तिमपङ्क्तेः आरभ्य दक्षिणतो वामं पठामः चेत्
श्लोकः लभ्यते । एवमेव उपरिष्ठाद् अधः क्रमेण चतसृषु पङ्क्तिषु, तथैव अधस्थाद् उपरि व्युत्क्रमेण
च श्लोकः पठितुं शक्यः ।