पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (२६ महायमकम्)

विकिसूक्तिः तः
(चित्रपद्धतिस्त्रिंशी (२६ महायमकम्) इत्यस्मात् पुनर्निर्दिष्टम्)

 
२६. यायायायायायायाया यायायायायायायाया ।
यायायायायायायाया या या या या या या या या ॥

पदविभागः[सम्पाद्यताम्]

यायाया (१), आय(२), आयाय(३), अयाय(४), अयाय(५), अयाय(६), अयाय(७), अयाया(८), यायाय(९),
आयायाय(१०), आयाया(११), या(१२), या(१३), या(१४), या(१५), या(१६), या(१७), या(१८), या(१९) ।

प्रतिपदार्थः[सम्पाद्यताम्]

या (१२) पादुका आयाय(३) - लाभाय एव परिश्राम्यति, अयाय(४) – या (१३) च शुभाय भवति,
या (१४) च अयाय(४) – ज्ञानाय भवति, या (१५) च अयाय(६) – इच्छायै भवति, या (१६)
च अयाय(७) – दूरीकरणाय भवति, अ-याया(८) – अकारवाच्यं भगवन्तम् आश्रितवती या (१७)
यायाय(९) – तस्य सञ्चाराय भवति, या (१८) च आयायाय(१०) – भगवन्तम् आश्रितान् प्रति
आनयति, आय-आया(११) या (१९) च सर्वत्र सञ्चरणयोग्यतापादिका, याया-या (१)
सद्गतिप्राप्तेः प्रापिका, (सा पादुका) आय(२) – अकारवाच्यस्य भगवतः शेषभूता अस्ति ।

तात्पर्यम्[सम्पाद्यताम्]

पादुका सर्वदा स्वस्वामिनः भगवतः तम् आश्रितानां च लाभाय एव श्राम्यति । अपि च
आश्रितानाम् अदृष्टशुभफलदात्री, ज्ञानदात्री च । आश्रितानां मनसि स्वस्य उपासनारूपाम् इच्छां
जनयति च । आश्रितानां सकलानि विरोधिपापानि नाशयति च । भगवन्तम् आश्रितवती एषा
तस्य पादयोः सञ्चारप्रयोजनाय भवति । आश्रितानां रक्षणार्थं भगवन्तं तेषां सकाशम् आनयति
च । आश्रितानां कामचारत्वस्य आपादयित्री च । आश्रितानां परमपुरुषार्थप्राप्तेः साधिका एषा ।
एवम्भूता सा भगवते एव शेषभूता अस्ति ।

विशेषः[सम्पाद्यताम्]

अस्मिन् श्लोके महायमकमिति शब्दचित्रम् । तच्च विविधैः चित्रैः युतम् । यथा,
१. एकस्वरचित्रम् – अकारः एक एव स्वरः अत्र ।
२. एकवर्णचित्रम् – यकारः एक एव वर्णः ।
३. द्विस्थानकं स्थानचित्रम् – अर्थात् अत्र विद्यमानाक्षरयोः उत्पत्तिस्थाने द्वे एव ।
४.गोमूत्रिका, सर्वतोभद्रम्, कङ्कणबन्धम्, मुरजबन्धम्, पद्मबन्धम्, इत्यादिबन्धचित्राणि
अस्मिन् विद्यन्ते ।
५. श्लोकानुलोमप्रतिलोमगतिचित्रम्, ६. अर्धयमकं, पादचतुरावृत्तियमकं,
पादार्धाष्टावृत्तियमकं, पादषोडशावृत्तियमकम्, एकाक्षरद्वादशावृत्तियमकमिति अनेकविधयमकयुतं
महायमकम् अत्र । श्लोकः विद्युन्मालावृत्ते रचितः अस्ति । (‘मो मो गो गो विद्युन्माला’)