पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (०९ पादानुलोमप्रतिलोमयमकम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

९. रामपादगता भासा सा भातागदपामरा ।
कादुपानञ्च कासह्या ह्यास काञ्चनपादुका ॥

पदविभागः[सम्पाद्यताम्]

राम-पाद-गता, भासा, सा, भाता, अ-गद-प-अमरा, कात्, उपानञ्च, क-अ-सह्या,
हि, आस, काञ्चन-पादुका ।

प्रतिपदार्थः[सम्पाद्यताम्]

राम-पाद-गता – रामस्य पादं प्रपन्ना, अ-गद-प-अमरा – स्वयं व्याधिनिरसने असमर्थाः
ब्रह्मादिदेवताः अपि या रक्षितवती सा / (गदपाः – शत्रवः अगदपाः – शत्रुरहिताः अमराः यस्याः
सा पादुका इति वा), कासह्या – कस्य / सूर्यस्य अपि असह्या (तेजसः आधिक्यात् पादुका
सूर्यमपि स्वतेजसा दग्धुं शक्नोति इति भावः), सा काञ्चनपादुका – सा हेम्नः पादुका,
कात् – ब्रह्मणः सकाशात्, उपानञ्च – (श्रीरङ्गविमानेन सह) भूमिमागता, भाता – (इति) प्रसिद्धा,
आस हि – आसीत् खलु ।
अस्य श्लोकस्य अन्वयः एवमपि कर्तुं शक्यः । (या) अगदपामरा भासा कासह्या कात् उपानञ्च, सा
काञ्चनपादुका रामपादगता भाता आस हि । (अर्थस्तु समानः।)

तात्पर्यम्[सम्पाद्यताम्]

आश्रितसौलभ्यगुणेन पादुका रामावतारकाले तस्य पादौ श्रिता । अनुग्रहविशेषेण देवानाम् अहङ्कारममकाररूपान्
आत्मव्याधीन् परिहृत्य, तथैव तेषां बाह्यशत्रून् च संहृत्य तान् रक्षति । सा पादुका स्वतेजसा सूर्यमपि
दग्धुम् / अभिभवितुं समर्था अस्ति । सा च श्रीरङ्गविमानेन सह भूमिमागता इति पुराणेषु प्रसिद्धम् ।

विशेषः[सम्पाद्यताम्]

अस्य शब्दचित्रस्य नाम पादप्रतिलोमयमकम् इति । अत्र प्रथमपादं प्रतिलोमक्रमेण पठ्यते चेत् द्वितीयपादः
लभ्यते । एवं द्वितीयपादस्य विलोमः प्रथमपादः भवति । एवमेव तृतीयचतुर्थपादयोरपि परस्परं विलोमक्रमः
अन्यतरस्य जनकः भवति ।