पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (११ मुरजबन्धः)

विकिसूक्तिः तः
Jump to navigation Jump to search

११. सा भूपा रामपारस्था विभूपास्तिसपारता ।
तारपा सकृपा दुष्टिपूरपा रामपादुका ॥

मुरजबन्धः Moorchabandaha

पदविभागः[सम्पाद्यताम्]

सा, भूपा, राम-पार-स्था, विभु-उपास्ति-स-पारता, तार-पा, स-कृपा,
दुष्टि-पूर-पा, राम-पादुका ।

प्रतिपदार्थः[सम्पाद्यताम्]

भूपा – भूमेः पालयित्री (रामावतारकाले तस्य वनवाससमये राज्यस्य पालनं कृतवती पादुका ।),
राम-पार-स्था – सर्वस्यापि पारभूतस्य रामस्य समीपे स्थिता, विभु-उपास्ति-स-पारता – विभोः
भगवतः अथवा सर्वव्यापिनः दिव्यात्मस्वरूपस्य उपासनस्य पारभूता अर्थात् उपायस्य पुरुषार्थस्य वा
काष्ठाभूता, तार-पा – सञ्चारकालेषु प्रणववाच्यस्य भगवतः रक्षयित्री, दुष्टि-पूर-पा – दोषाणां प्रवाहं
पिबन्ती, सा रामपादुका सकृपा – (आश्रितेषु) कृपाविशिष्टा अस्ति ।

तात्पर्यम्[सम्पाद्यताम्]

पूर्वतनश्लोके पादुका आश्रितानां कार्यसिद्धये स्वयं प्रयतते इत्युक्तम् । तत्र कारणं किमिति विचार्यमाणे
ज्ञायते यत् तस्याः कृपाविशेषः एवेति । अस्मिन् श्लोके तस्याः तां कृपां स्तौति कविः । अर्चारूपिणा
भगवता सहैव सदा स्थित्वा लोकान् पालयति पादुका । पूर्वं रामावतारकाले तस्य वनगमने सिंहासने
स्थित्वा स्वयं राज्यभारम् ऊढवती एषा । रामस्य समीपे भूत्वा लोकवेदमर्यादां स्थापयति एषा ।
सर्वस्मात् परस्य रामस्य विषये बहुमानं वहति एषा । भगवदुपासनाफलस्य पराकाष्ठा अस्ति एषा ।
यद्वा दिव्यात्मस्वरूपध्यानं, दिव्यमङ्गलविग्रहध्यानं, तत्रापि दिव्यचरणारविन्दध्यानं, दिव्यपादुकाध्यानम्
इति उपायसोपानेषु पराकाष्ठभूता एषा । तारस्य प्रणववाच्यस्य भगवतः सञ्चारकालेषु कण्टकादीन्
वारयन्ती तं रक्षति इयम् । आश्रितानां सकलान् दोषानपि पीत्वा अपनुदति च । एवं गुणैः पूर्णा रामपादुका
आश्रितेषु कृपाविशिष्टा खलु इति आश्चर्यम् ।

विशेषः[सम्पाद्यताम्]

अयं श्लोकः मुरजबन्धे अस्ति । मुरजः तालवाद्यविशेषः । मुरजे यः बन्धः दृश्यते तेन क्रमेण अक्षराणि
पठितुं शक्यानि अत्र । चित्रं दृश्यताम् ।