महाभारतसूक्तयः(सन्तोषः)

विकिसूक्तिः तः
(महाभारतसूक्तयः(सन्तोष:) इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

अन्तो नास्ति पिपासायाः संतोषः परमं सुखं । शान्ति ३३०/२१

तस्मात् संतोषमेवह् परं पश्यन्ति पण्डिताः ॥ वन २/ ४६

अनित्यं यौवनं रूपं जीवितं रलसंचयः ।
ऎश्वर्यं प्रियसंवासो गृध्येत् तत्र न पण्डितः ॥ वन २/४७

फलशाकमपि श्रेयो भॊक्तुं ह्यकृपणं गृहे । वन १९३/३०

यो दत्तवातिथिभूतेभ्यः पितृभ्यश्च द्विजोत्तमः ।
शिष्टान्यन्नानियो भुङ्क्ते किं वै सुखतरं ततः ॥ वन १७३/३२

असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् ॥ वन २१६/२३

तोष परो हि लाभः ॥ उद्योग ४०/१३

यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत् सर्वमिति मत्वा शमं व्रजेत् ॥ द्रोण ६३/९

सन्तोषो वै स्वर्गतमः सस्तोषः परमं सुखम् । शान्ति २६/११

तुष्टेर्न किंचित् परतः सा सम्यक् प्रतितिष्ठति ॥ शान्ति २१/२

तुष्टेर्न किंचित् परमं सा सम्यक् प्रतितिष्ठ्ति ।
विनीत क्रोधहर्षस्य सततं सिद्धिरुत्तमा ॥ शान्ति २६/१२

नृपेणाहूयमानस्य यत् तिष्ठति भयं ह्यदि ।
न तत् तिष्ठति तुष्टानां वने मूलफलासिनाम् ॥ शान्ति १११/३१

न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च ।
न शीलेन न वृत्तेन द्तथ नैवार्थसम्पदा ।
अलभ्यं लभते मत्यस्त्र का परिदेवना ॥ शान्ति २२६/२०

लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति ।
प्राप्तव्यान्येव चाप्नोति दुःखानि च सुखानि च ॥ शान्ति २२६/२२

एतद् विदित्वा कात्स्न्र्येन यो न मुह्यति मानवः ।
कुशली सस्र्वदुःखेषु स वै सस्र्वधनो नरः ॥ शान्ति २२६/२३

अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् ।
तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम् ॥ शान्ति ३५६/२

ईप्सितस्येव सम्प्राप्तिरन्नस्य समयोऽतिथे ।
एषितस्यात्मनः काले वृद्धस्यैव सुतो यथा ॥ शान्ति ३५६/३