महाभारतसूक्तयः(स्त्री)

विकिसूक्तिः तः
(महाभारतसूक्तयः(स्त्रीः) इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

प्राचेतस्य वचनं कीर्तयन्ति पुराविदः ।
यस्याः किंचिन्नाददते ज्ञातयो न स विक्रयः ॥ अनुशासन ४६/१

अर्हणं तत्कुमारीणामानृशंस्यतमं च तत् ।
सर्व च प्रतिदेयं स्यात् कन्यायै तदशेषतः ॥ अनुशासन ४६/२

पितृभिर्भ्रातृभिश्चापि श्वशुरैरथ देवरैः ।
पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः ॥ अनुशासन ४६/३

यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
अप्रमोदात् पुनः पुंसः प्रजनो ब प्रवर्धते ॥ अनुशासन ४६/४

स्त्रियो यत्र च पूज्यन्ते रमन्ते तत्र देवता ॥
अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः ॥ अनुशासन ४६/१

तदा चेतत् कुलं नास्ति यदा शोचन्ति जामयः ॥ अनुशासन ४६/६

जामीशप्तानि गेहानि निकृत्तनीव कृत्यया ।
नै व भान्ति अ वर्धन्ते श्रिया हीनानि पार्थिव ॥ अनुशासन ४६/७

स्त्रियः पुंसां परिददे मनुर्जिगमिषुर्दिवम् ।
अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः ॥ अनुशासन ४६/८

ईषवो मानकामाश्च चण्डाश्च सुहृदोऽबुधाः ।
स्त्रियस्तु मानमर्हन्ति ता मानयत मानवाः ॥ अनुशासन ४६/९

स्त्रियस्तु हि वै धर्मो रतिभोगाश्च केवलाः ।
परिचर्या नमस्कारास्तदायत्ता भवन्तु वः ॥ अनुशासन ४६/१०

उत्पादनमपत्यस्य जातस्य परिपालनम् ।
प्रीत्यर्थं लोकयात्रायाः पश्यत स्त्रीनिबन्धनम् ॥
सम्मान्यमानास्चैता हि सर्वकार्याण्यवापवाप्यस्यथ । अनुशासन ४६/११

धर्मः स्वभर्तृशुश्रूषा तया स्वर्गं जयन्त्युत ॥ अनुशासन ४६/१३

श्रियः एताः स्त्रियो नाम सत्कार्यां भूतिमिच्छिता ।
पलिता निगृहीता च श्रीः स्त्री भवति भारत ॥ अनुशासन ४६/१५