महाभारतसूक्तयः(रोगः)

विकिसूक्तिः तः
(महाभारतसूक्तयः (रोगः) इत्यस्मात् पुनर्निर्दिष्टम्)

कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः॥ वन. २०९/१४॥

प्रज्ञया मनसं दुःखं हन्याच्छारीरमौषधैः॥ वन. २१६/१७॥

न मनुष्ये गुणः कश्चिद् राजन् सधनतामृते।
अनातुरत्वाद् भद्रं ते मृतकल्पा हि रोहिणः॥ उद्योग. ३६/६७॥

रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्वम्।
दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान् न सौख्यम्॥ उद्योग. ३६/६९॥

कष्टो भवेद् व्याधिरिवाक्रियावान्॥ कर्ण. १७/२०॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः(रोगः)&oldid=15521" इत्यस्माद् प्रतिप्राप्तम्