महाभारतसूक्तयः(सङ्गतिः)

विकिसूक्तिः तः
(महाभारतसूक्तयः (सङ्गतिः) इत्यस्मात् पुनर्निर्दिष्टम्)

वस्त्रमापस्तिलान् भूमिं वासयते यथा ।
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥ वन १/२४

मोहजालस्य योनिर्हि मूढैरेव समागमः ।
अहन्यहनि धर्मस्य योनिः साधुसमागमः ॥ वन १/२५

येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च ।
ते सेव्यास्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ॥ वन १/२७

असतां दर्शनात् स्पर्शात् संजल्पाश्च सहासनात् ।
धर्मचाराः प्रहीयन्ते सिद्धयन्ति च न मानवः ॥ वन १/२९

बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ।
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ।। वन १/३०

तस्य साधुसमारम्भाद् बुद्धिर्धर्मेषु राजते ॥ वन २१०/१२

असंत्यागात् पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात् ।
शुक्षेणार्द्रं दह्यते मिश्रभावात् तसमात् पापैः सह सन्धि न कुर्यात् ॥ उद्योग ३४/७०

कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ।
तदेवापहरत्येनं तस्मात् कल्याणमाचरेत् ॥ उद्योग ३९/५५

येषु येषु नरव्याघ्र यत्र यत्र च वर्तते ।
अशु तच्छीलतामेति तदिदं त्वयि दृश्यते । द्रोण १४३/११

संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि ।
अन्योन्यस्य च विश्वासः स्वपचेन शुनो यथा ॥ शान्ति १३९/४०

अशाधुश्चैव परुषो लभते शीलमेकदा ।
साधोश्चापि ह्यसाधुभ्यः शोभना जायते प्रजा ॥ शान्ति २६७/११

यादृशैः संनिवसति यादृशांश्चोपसेवते ।
यादृगिच्छेच्च भवितुं तादृग् भवति पूरुषः ॥ शान्ति २९९/३२

यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वास्स्तेनमेव ।
वासो यथा रंगवशं प्रायति तथा स तेषां वशमभ्युपैति ॥ शान्ति २९९/३३

अज्ञानेनावृतो लोको मात्सर्यान्त प्रकाशते ।
ल्भात् त्यजति मित्राणि संगात् स्वर्गं न गच्चति ॥ शान्ति २९९/४०