महाभारतसूक्तयः(स्वहितम्)

विकिसूक्तिः तः
(महाभारतसूक्तयः (स्वहितम्) इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे किलं त्यजेत्। आदि ११४/३८॥

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥ आदि ८०/१७ दा.पा. १८॥

आपदार्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि। उद्योग ३७/१८॥

आत्मानं सततं रक्षेद् दारैरपि धनैरपि॥ आदि १५७/२७॥

एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः।
न समं सर्वमेवेति बुधानामेष निश्चयः॥ आदि १५७/२८॥

आत्मकार्यं च सर्वेषां गरीयस्त्रिदशेश्वर॥ कर्ण ८७/७१॥

आत्मवृद्धिर्मित्रमित्रोदयस्तथा॥ शान्ति ६०/१३॥

विपरीतं द्विषत्स्वेतत् षडविधा वृद्धिरात्मनः॥ शल्य ६०/१४॥

सर्वात्मनैव धर्मस्य न परस्य न चात्मनः।
सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः॥ शान्ति १३०/१८॥

पीडितस्य किमद्वारमुत्पथो विधृतस्य च।
अद्वारतः प्रद्रवति यदा भवति पीडितः॥ शान्ति १३०/२२॥

कृत्वा बलवता सन्धिमात्मानं यो न रक्षति।
अपथ्यमिव तद् भुक्तं तस्य नार्थाय कल्पते॥ शान्ति १३८/१०९॥

न च कश्चित् कृते कार्ये कर्तारं समवेक्षते॥ शान्ति १३८/१११॥

तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेत्।
आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनानि च।।
अपि सर्वमुत्सृज्य रक्षेदात्मानमात्मना।
आत्मा हि सर्वदा रक्ष्यो दारैरपि धनैरपि॥ शान्ति १३८/१८१॥

शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा॥ शान्ति १३८/१९३॥

समाहितश्चरेद् युक्त्या कृत्यार्थश्च न विश्वसेत्।
द्रव्याणि संततिश्चैव सर्वं भवति जीवितः॥ शान्ति १३८/१९६॥

तस्मादभीतवद् भीतो विश्वस्तवदविश्वसन्॥ शान्ति १३८/२०६॥

न ह्यप्रमत्तश्चलति चलितो वा विनश्यति।
पूर्वं सम्मानना यत्र पश्चाच्चैव विमानना।
जह्यात् तत् सत्त्ववान् स्थानं शत्रोः सम्मनितोऽपि सन्॥ शा. १३९/३३॥

उत्पतेत् सहजाद् देशाद् व्याधिदुर्भिक्षपीडितात्।
अन्यत्र वस्तुं गच्छेद् वा वसेद् वा नित्यमानितः॥ शान्ति १३९/९१॥

कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम्।
कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत्॥ शान्ति १३९/९३॥

कुपुत्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः।
कुराज्ये निर्वृत्तिर्नास्ति कुदेशे नास्ति जीविका॥ शान्ति १३९/९४॥

कुमित्रे संगतिर्नास्ति नित्यमस्थिरसौहृदे।
अवमानः कुसम्बन्धे भवत्यर्थविपर्यये॥ शान्ति १३९/९५॥

सा भार्या या प्रियं ब्रूते स पुत्रो यस्य निर्वृतिः।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते॥ शान्ति १३९/९६॥

धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च।
पयः पिबति यस्तस्यां धेनुस्तस्यास्ति निश्चयः॥ शान्ति १७४/३२॥

अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः।
पेशलं चानुरूपं च कर्तव्यं हितमात्मनः॥ शान्ति ३२२/२०॥

राजसांस्तामसांश्चैव नित्यं दोषान् विवर्जयेत्।
सात्विकं मार्गमास्थाय पश्येदात्मानमात्मना॥ शान्ति ३२६/२८॥

दातव्यमसकृच्छक्त्या यष्टव्यमसकृत् तथा।
पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता॥ अनु १४१/७७॥

विघसाशिना सदा भाव्यं सत्पथालम्बिना तथा।
ब्राह्मं हि मार्गमाक्रम्य वर्तितव्यं बूभूषता॥ अनु. १४३/५५॥

सत्यधर्मरताः सन्तः सर्वलिङ्ग विवर्जिताः।
धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः॥ अनु. १४५॥

मध्याह्ने वार्धरात्रेः वा गमनं नैव रोचयेत्॥ अनु. १४५ दा.पा.॥

अयशस्करमर्थघ्नं कर्म यत् परपीडनम्।
भयाद् वा यदि वा लोभान्न कुर्वीत कदाचन॥ अनु.१४५ दा.पा.॥

आत्मसाक्षी भवेन्नित्यमात्मनस्तु शुभाशुभे।
मनसा कर्मणा वाचा न च काङ्क्षेत् पातकम्॥ अनु. १४५ दा.पा.॥

बुद्धि श्रद्धा च विनयः करणानि हितैषिणाम्॥ अनु.१४५ दा.पा.॥

अनाश्रित्योच्छ्रयं नास्ति मुख्यमाश्रयमाश्रयेत्॥अनु. ९२ दा.पा. अ.XXI॥