माघ
दिखावट
(शिशुपालवध इत्यस्मात् पुनर्निर्दिष्टम्)
संस्कृते प्रसिद्धेषु पञ्चसु महाकाव्येषु शिशुपालवधमप्येकम् । महाकविर्माघः अस्य रचयिता । शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते ।
“ | उपमा कालिदासस्य भारवेरर्थगौरवं।
दन्डिन: पदलालित्यं माघे सन्ति त्रयो गुणः। |
” |
शिशुपालवध
[सम्पाद्यताम्]- भूरिभिर्भारिभिर्भीराभूभारैरभिरेभिरे ।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥
- दाददो दुद्ददुद्दादी दाददो दूददीददोः ।
दुद्दादं दददे दुद्दे दादाददददोऽददः ॥
- वारणागगभीरा सा साराभीगगणारवा ।
कारितारिवधा सेना नासेधा वारितारिका ॥
- तं श्रिया घनयानस्तरुचा सारतया तया ।
यातया तरसा चारुस्तनयानघया श्रितं ॥
- सकारनानारकास-
कायसाददसायका ।
रसाहवा वाहसार-
नादवाददवादना ॥
- सा सेना गमनारम्भे
रसेनासीदनारता ।
तारनादजनामत्त
धीरनागमनामया ॥
- सदैव संपन्नवपू रणेषु
स दैवसंपन्नवपूरणेषु ।
महो दधे 'स्तारि महानितान्तं
महोदधेस्तारिमहा नितान्तम् ॥
- सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो
लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरे-
रेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥
बाह्यसंबन्धनानि
[सम्पाद्यताम्]