सुभाषितरत्नकरण्डकम् (धर्मश्रवणप्रोत्साहनकथा)

विकिसूक्तिः तः
Jump to navigation Jump to search

॥ अथ धर्मश्रवणप्रोत्साहनकथा ॥

जलनिधिकूर्मकन्ठयुगरन्ध्रसमागमवत्
क्षणं अनवाप्यं अद्भुतं इमं समवेत्य चलं ।
प्रशमपुरैकवर्त्म विनिपातभयापहरं
शृणुत सुदुर्लभं क्षणं अपीह मुनेर्वचनं । । ८ । ।

यद्दुर्लभं कल्पशतैरनेकैर्मानुष्यं अष्टाक्षणदोषमुक्तं ।
तत्सांप्रतं प्राप्तं अतो भवद्भिः कार्यो हि धर्मश्रवणाय यत्नः । । ९ । ।

पल्लवाग्रजलबिन्दुचञ्चले क्लेशजालपरिवेष्टिते भवे ।
यो न चिन्तयति कर्मसत्पथं तस्य जन्म भवतीह निष्फलं । । १० । ।

न नरकगतैः प्रेतैस्तिर्यग्गतैर्विकलेन्द्रियैर्
अमरगुरुभिः प्रत्यन्तस्थैः कुदृक्करविक्षतैः ।
मुनिसवितरि प्रज्ञालोकेन चानुदिते जिने
सनरविबुधैः शक्यं पातुं मुनीन्द्रवचोमृतं । । ११ । ।

तस्मात्कुकार्यं व्यपहाय सर्वं मत्वा स्वकार्यं परमार्यधर्मं ।
श्रोतव्य एव प्रयतेन धर्मो यस्मादतः सर्वगुणा भवन्ति । । १२ । ।

मौनीन्द्रं वाक्यरत्नं जनयति सुधियां एतदादौ प्रमोदं
श्रोत्रापाते ततश्च प्रबलगुरुघनध्वान्तवृन्दं निहन्ति ।
चिन्ताध्यानावसाने स्फुटयति सकलं जन्मचक्रप्रबन्धं
निःशेषातङ्कपङ्क्तिं विघटयति सदा सर्वसंपन्निधानं । । १३ । ।

हरति तीव्रभवप्रभवापदं दिशति निर्वृतिसौख्यं अनुत्तरं ।
तदिदं एवं अवेत्य मुनेर्वचः शृणुत संप्रति निर्मलमानसाः । । १४ । ।

 । । इति धर्मश्रवनप्रोत्साहनकथा । ।