सुभाषितरत्नभाण्डागारम् (५ अन्योक्तिप्रकरणम्)

विकिसूक्तिः तः
(सुभाषितरत्नभाण्डागारम्/५ अन्योक्तिप्रकरणम् इत्यस्मात् पुनर्निर्दिष्टम्)

सूर्यान्योक्तयः
रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः।
न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति॥१॥
खद्योतो द्योतते तावद्यावन्नोदयते शशी।
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः॥२॥



चन्द्रान्योक्तयः
आलोकवन्तः सन्त्येव भूयांसो भास्करादयः।
कलावानेव तु ग्रावद्रावकर्मणि कर्मठः॥१॥
दैवाद्यद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः।
तथापि किं कपालानि तुलां यान्ति कलानिधेः॥२॥



वाय्वन्योक्तयः