"असंभवं हेममृगस्य..." इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) added Category:महापुरुषाः using HotCat |
(लघु) removed Category:विषयविभागः करणीयः using HotCat |
||
पङ्क्तिः १४: | पङ्क्तिः १४: | ||
[[वर्गः:अकारादीनि सुभाषितानि]] |
[[वर्गः:अकारादीनि सुभाषितानि]] |
||
[[वर्गः:विषयविभागः करणीयः]] |
|||
[[वर्गः:महापुरुषाः]] |
[[वर्गः:महापुरुषाः]] |
१२:४०, १३ एप्रिल् २०२० इत्यस्य संस्करणं
सुभाषितम्
असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥
हितोपदेशः
asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya ।
prāyaḥ samāpannavipattikāle dhiyo'pi puṃsāṃ malinā bhavanti ॥
पदच्छेदः
असंभवं, हेममृगस्य, जन्म, तथापि, रामः, लुलुभे, मृगाय, प्रायः, समापन्नविपत्तिकाले, धियः, अपि, पुंसां, मलिना, भवन्ति ।
तात्पर्यम्
सुवर्णहरिणः भवितुं नार्हति, तथापि रामस्य मनसि तद्विषये लोभः उत्पन्नः । कष्टकालः उपस्थितः चेत् धीमतामपि मनसि अविवेकः उत्पद्येत् ।
आङ्ग्लार्थः
A golden deer can never exist, but still lord Rama was greedy for it. When the bad times comes, mind of greatest people also goes in wrong directions.