एतं वै तमात्मानं...

विकिसूक्तिः तः

एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च
व्युत्थाय अथ भिक्षाचर्यं चरन्ति । - बृहदारण्यकोपनिषत् ३-५-१

तम् एतम् आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाः वित्तैषणायाः लोकैषणायाश्च
व्युत्थाय अथ भिक्षाचर्यं चरन्ति ।

गृहस्थेन ‘तिस्रः आशाः एष्टव्याः’ इति वेदेषु उच्यते । अस्यैव ‘एषणात्रयम्’ इति
नाम । ताश्च तिस्रः एषणाः पुत्रैषणा, वित्तैषणा, लोकैषणा च । एषणात्रयाकांक्षिणो
हि अज्ञानिनः संसारिणः । गृहस्थाश्रमं प्रविश्य पुत्रान् उत्पाद्या आत्मनः वंशवृक्षं
वर्धयित्वा अस्मिन् मानुषे लोके ख्यातबुभूषा एव पुत्रैषणा । कर्माणि कृत्वा अधिकां
सम्पदं प्राप्तुम् इच्छा एव वित्तैषणा । अग्निहोत्रं, यज्ञयागादीनि च अनुष्ठाय
मरणानन्तरं स्वर्गलोकप्रेप्सा एव लोकैषणा ॥

एषणात्रयसंन्यासं कृत्वा प्रत्यगात्मानं ज्ञातुं ये यतन्ते, ज्ञात्वा ये कृतार्थाः भवितुम्
इच्छन्ति ते एव धीराः । एते एषणात्रयं त्यक्त्वा, संन्यासिनो भूत्वा,
वेदान्तवाक्यार्थविचारपराः सन्तः ज्ञानिनो मुच्यन्ते । एते एव यतयः ॥

"https://sa.wikiquote.org/w/index.php?title=एतं_वै_तमात्मानं...&oldid=16469" इत्यस्माद् प्रतिप्राप्तम्