एवं त्वयि नान्यथेतोऽस्ति...

विकिसूक्तिः तः

एवं त्वयि नान्यथेतोऽस्ति, न कर्म लिप्यते नरे । - ईशावास्योपनिषत् २

हे मानव, ईदृशे त्वयि पापाचरणस्य अवकाशो नास्ति, तेन पापफलस्य लेपः तव नास्ति ॥

मानवस्य पापाचरणं नाम इदानींकाले स्वाभाविकं भवति, पापान्येव मानवः करोति । प्रातरुत्थाय रात्रौ
शयनपर्यन्तमपि मानवस्य जीवनं पापमयमेव दृश्यते । अस्मात् पापजीवनात् परिहारोपायम् उपदिशति इयं श्रुतिः ॥

'हे मानव, धर्मपरायणो भव' इत्येष एव सः सन्देशः । मानवः सदाचारसम्पन्नश्चेत् तस्य दुराचारकरणे अवकाशः कुत्र?
जपः, पारायणम्, पूजा, भगवद्ध्यानम् सत्सङ्गः, पुराणश्रवणम्, सत्कथाकालक्षेपः – इत्यादिधर्ममार्गे एव निरतानां
सज्जनानां चौर्यम्, वञ्चनम्, अनृतवचनम्, जिह्मम्, प्राज्ञ-देव-द्विज- गुरुनिन्दा इत्यादिपापाचरणे अवकाश एव नास्ति ॥

पापाचारदूराणां मानवानां पापस्य फलानि नैव सम्भवन्ति । पापसंस्काराश्च नाशं गच्छन्ति ॥