अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं...

विकिसूक्तिः तः

अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ - श्वेताश्वतरोपनिषत् २-१५

अजं ध्रुवं सर्वदोषरहितं देवं ज्ञात्वा सर्वपाशेभ्यो मुच्यते ।

अयम् एकः प्रसिद्धो मन्त्रः । देवं विज्ञाय सर्वबन्धनेभ्यो मुक्तिः ।
कोऽसौ देवः ? इन्द्रो वा विष्णुर्वा सूर्यो वा अर्यमा वा एष देवः ?
नतमोऽपि एषाम् अत्र देवः विवक्षितः प्रतिपादितो वा । तर्हि
मुक्तिसाधनभूतं देवज्ञानं कीदृशम् ? अत्र देवो नाम अद्वितीयं
परिपूर्णं निर्गुणं परमेव ब्रह्म, नान्यः ॥

स देवः न अस्मत् भिन्नः । अयं देवः न ‘असौ’ दूरस्थः, किन्तु
‘एषः’ देवोऽयम् । ‘देवः’ इत्युक्ते सामान्येन रामः, कृष्णः, गणपतिः,
शिवः, लक्ष्मीः इत्याद्यैव अस्माकं कल्पना । ता देवताः परोक्षभूताः ।
वेदान्तप्रतिपाद्यस्तु देवः अस्माकं प्रत्यगात्मभूत एव । एषः अजः
जन्मरहितः, ध्रुवः नाशरहितः । उपाधिदोषविदूरोऽयं परो देवः ।
इमम् आत्मत्वेन विदित्वा तादृशः ब्रह्मवित् सर्वपाशेभ्यो मुच्यते ।
अस्य पुनः जन्म वा संसारबन्धो वा नास्तीत्यर्थः ॥