असन्नेव स भवति...

विकिसूक्तिः तः

परं ब्रह्म अस्त्येव

असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद् वेद ।
सन्तमेनं ततो विदुरिति ॥ - तैत्तिरीयोपनिषत् २-६-१

ब्रह्म ‘असत्’ इति वेद चेत् सः असन् एव भवति । ब्रह्म ‘अस्ति’ इति वेद
चेत् ततः एनं सन्तं विदुः इति ॥

परं ब्रह्म ‘नास्ति’ इति केचिद् वदन्ति, ‘अस्ति’ इति च अपरे वदन्ति । तयोः
कतरत् मतं साधु? इति चेत् । ‘अस्ति’ इति वदतामेव पक्षः श्रेयान् । ब्रह्म
आत्मनः अभिन्नम्, स्वस्वरूपमेव ब्रह्म । तस्मात् ‘ब्रह्म अस्ति’ इत्युक्ते
‘अहम् अस्मि’ इत्येवार्थः । एवंविदं ज्ञानिनः ‘सन्तम्’ आहुः । सन्तं नाम
सत्पुरूषम् इत्यर्थः । अस्ति इति सन्, परमार्थतो विद्यमानः इत्यर्थः ॥

यस्तु ‘ब्रह्म नास्ति’ इति वादं करोति तादृशः ‘असन्’ एव भवति । स्वस्वरूपभूतमेव
ब्रह्म नास्ति इति वदन् मूढ एव । तादृशः स मनुष्यः ‘असन्’ एव भवति इत्यर्थः ।
तादृशं पुरूषं ज्ञानिनः ‘असत्पुरूषः’ इत्येव कथयन्ति । तस्मात् विवेकी मुमुक्षुः
‘अस्ति’ इत्येव ब्रह्म जानीयात् इति तात्पर्यम् ॥

"https://sa.wikiquote.org/w/index.php?title=असन्नेव_स_भवति...&oldid=16393" इत्यस्माद् प्रतिप्राप्तम्