तत्कारणं साङ्ख्ययोगाधिगम्यं...

विकिसूक्तिः तः

ज्ञानेन पाशप्रध्वंसः !

तत्कारणं साङ्ख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः । - श्वेताश्वतरोपनिषत् ६-१३

जगत्कारणभूतं साङ्ख्ययोगाधिगम्यं तं देवं ज्ञात्वा सर्वपाशैः मुच्यते ।

आत्मानं विज्ञातुं वेदवेदान्तेषु मार्गद्वयम् उपदिष्टं दृश्यते । साङ्ख्यमार्गः
योगमार्गश्च इति द्वौ मार्गौ । साङ्ख्यं नाम विचारमार्गः, ज्ञानमार्गः ।
वस्तुतन्त्रज्ञानरूपः राजमार्गोऽयम् । वेदान्तवाक्यस्य श्रवणमनननिदिध्यासनरूपमार्गोयम् ।
अपरो योग मार्गः । ध्यानमार्गोऽयम् । कर्तृतंत्ररूपः सुलभमार्गोऽयम् ।
मार्गद्वयमप्येतत् आत्मज्ञानद्वारा मुक्तिसाधनं भवति ॥

एवम् आत्मनि विज्ञाते सति ज्ञातुः किं फलम् ? सर्वपाशविमोचनम् ।
आत्मज्ञानबलेन सर्वपाशैः प्रमुच्यते साधकः । बंधनमेव पाशाः । सुखदुःखे,
रागद्वेषौ, लाभालाभौ, जन्ममरणे, प्रियाप्रिये – इत्यादयः पाशाः । रज्जुपाशवत्
एते पाशाः संसारिणो जीवान् दुःखात्मके संसारचक्रे सम्यक् बध्नन्ति ।
एते सर्वेऽपि पाशाः आत्मज्ञानेन छिद्यन्ते ॥