यथोर्णनाभिः सृजते...

विकिसूक्तिः तः

उभयविधकारणमपि ब्रह्मैव

यथोर्णनाभिः सृजते गृह्णते च
यथा पृथिव्याम् ओषधयः सम्भवन्ति ।
यथा सतः पुरूषात् केशलोमानि
तथाऽक्षरात् सम्भवतीह विश्वम् ॥ - मुण्डकोपनिषत् १-१-७

यथा ऊर्णनाभिः स्वयमेव स्वस्मादेव तन्तून् सृष्ट्वा अनन्तरं स्वस्मिन्नेव
उपसंहरति, यथा च पृथिव्याम् ओषधिवनस्पतयः सम्भवन्ति, यथा च जीवतः
पुरुषात् केशलोमानि जायन्ते, एवमेव परस्मात् अक्षरात् इदं विश्वं सम्भवति ॥

“अक्षरात् इदं विश्वं सम्भवति” इतिसन्देशं सुन्दरतया दृष्टान्तत्रयेण अयं मन्त्रः
प्रतिपादयति । तद्यथा –

लूताकीटः उपादानकारणान्तरम् अनपेक्ष्य स्वयमेव तन्तून् सृष्ट्वा ततः स्वस्मिन्नेव
यथा उपसंहरति, तथैव परमात्मा स्वयमेक एव अस्य विश्वस्य उपादानं निमित्तं
च कारणम् । भूमेः जाताः ओषधयः भूमावेव यथा लीयन्ते, तथैव ब्रह्मणः जातमिदं
जगत् ब्रह्मण्येव लीयते । जीवतः मनुष्यात् यथा केशलोमादीनि जायन्ते तद्वदेव
चिन्मात्राद् ब्रह्मणः जगदिदं जायते इत्यर्थः ॥

"https://sa.wikiquote.org/w/index.php?title=यथोर्णनाभिः_सृजते...&oldid=16579" इत्यस्माद् प्रतिप्राप्तम्