आत्मा वा अरे द्रर्ष्टव्यः...

विकिसूक्तिः तः

साक्षात् मोक्षसाधनानि इमानि

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । - बृहदारण्यकोपनिषत् २-४-५

अरे मैत्रेयि आत्मा एव द्रष्टव्यः । आत्मा एव श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ॥

अत्यन्तप्रसिद्धो मन्त्रोऽयम् अत्यन्तमुख्यश्च जिज्ञासूनाम् । आत्मा एव ज्ञातव्यः इति
उपदिशति अयं मन्त्रः । आत्मज्ञानादेव मुक्तिः आत्मज्ञानादेव अविद्यानिवृत्तिश्च ।
अतः विवेकिना आत्मज्ञानमेव सम्पादनीयम् ॥

अस्तु आत्मज्ञानप्राप्त्यै साधकैः किं कर्तव्यम् श्रवण-मनन-निदिध्यासनानि कर्तव्यानि ।
श्रवण-मनन-निदिध्यासनानि आत्मज्ञानस्य साक्षात् साधनानि भवन्ति । श्रवणं नाम सद्गुरोः
वेदान्त सन्देशानां श्रद्धया श्रवणक्रिया । मननं नाम श्रुतस्यैव युक्त्या अनुसन्धानम् । निदिध्यासनं
नाम तस्यैव पुनः अनुभवे स्थापनम् अनुभवे पर्यवसानं च । एतानि त्रीण्यपि साधनानि
आत्मज्ञानप्राप्त्यै प्रधानानि भवन्ति । अतः श्रवणमनननिदिध्यासनैः साधनैः उत्तमजिज्ञासूनाम्
आत्मज्ञानम् अस्मिन्नेव जन्मनि लभ्यते । तस्मात् आत्मज्ञानलाभाय साक्षात्साधनानि एतानि भवन्ति ॥