सदेव सोम्य इदमग्र...

विकिसूक्तिः तः

तदापि अद्यापि एकमेव ब्रह्म

सदेव सोम्य इदमग्र आसीत् एकमेव अद्वितीयम् । - छान्दोग्योपनिषत् ६-२-१

हे सोम्य, श्वेतकेतो, इदं जगत् अग्रे एकमेव अद्वितीयं सदेव ब्रह्म आसीत् ।

न शून्यात् इदं जगत् उत्पन्नम् । किं तु सतः जातमिदं विश्वम् । ‘सत्’ नाम ‘अस्तिता”
इत्यर्थः । सत एव नामान्तरं “ब्रह्म” । ब्रह्मैव अग्रे आसीत् । ब्रह्म च एकमेव अद्वितीयम् ।
अद्वितीयं नाम द्वितीयरहितम् । परब्रह्मणा सह न किञ्चिदन्यत् आसीत् इत्यर्थः ॥

सत्स्वरूपे परस्मिन् ब्रह्मणि सजातीयभेदो वा विजातीयभेदो वा स्वगतभेदो वा नैवास्ति ।
ब्रह्मैव एकमेव आसीत्, अद्वितीयम् आसीत्, ब्रह्म परिपूर्णमासीत् । परमार्थतस्तु इदानीमपि
तद्ब्रह्म परिपूर्णमेवास्ति । परस्मिन् ब्रह्मणि तु न कोऽपि विशेषोऽस्ति । एकस्वरूप एव समुद्रः
वीचयः, तरङ्गाः, फेनानि, बुद्बुदाः इति यथा व्यवह्रियते; तथैव एकमेव परं ब्रह्म जगत् इति
अज्ञानिभिः व्यपदिश्यते । विद्यमानं तु परं ब्रह्म एकमेव । अज्ञानेनैव तु बह्मणि नामरूपाणि
विद्यमानानीव दृश्यन्ते ॥

"https://sa.wikiquote.org/w/index.php?title=सदेव_सोम्य_इदमग्र...&oldid=16385" इत्यस्माद् प्रतिप्राप्तम्