अत्रायं पुरुषः स्वयं...

विकिसूक्तिः तः

आत्मा स्वयंज्योतिः

अत्रायं पुरुषः स्वयंज्योतिर्भवति । - बृहदारण्यकोपनिषत् ४-३-९

अत्र स्वप्ने अयम् आत्मा पुरुषः स्वयंज्योतिर्भवति ।

आत्मा स्वप्नकाले स्वयंज्योतिः भवति । स्वयंज्योतिर्नाम स्वयंप्रकाशस्वरूपः ।
अनितरसहायः सन् आत्मा स्वयमेव सर्वमपि भवति खलु ? यद्यपि आत्मा
सदा स्वतः स्वरूपेण ज्योतिस्स्वरूप एव तथापि तत् स्वरूपम् अस्माकं स्वप्ने
विशेषतो अनुभूयते । आत्मा तु जागरिते स्वप्ने सुषुप्तौ च सर्वदा स्वयंज्योतिः
स्वरूप एव भवति । अपि तु स्पष्टतया एतादृशानुभवो जागरिते नास्माकं गोचरो
भवति । यतो हि जागरिते इन्द्रियाणि अन्तः करणं च कार्याणि कुर्वन्ति ।
आत्मा अपि तैः सह संहत इव दृश्यते ॥

स्वप्ने तु आत्मा एक एव भवति । तत्र इन्द्रियमनोबुद्धयः नैव विद्यन्ते । तथापि
आत्मा एक एव स्वयमेव सर्वं भूत्वा सर्वं प्रकाशयति खलु ? अयं स्वप्नानुभवः
सार्वत्रिकः सार्वजनीनश्च । आत्मनः इमं स्वयंमहिमानं स्वप्ने द्र्ष्टुं सर्वेषामपि
शक्यते । परमार्थदृष्ट्या तु त्रिष्वपि स्थानेषु आत्मा स्वयंज्योतिः स्वरूप एव भवति ॥

"https://sa.wikiquote.org/w/index.php?title=अत्रायं_पुरुषः_स्वयं...&oldid=16440" इत्यस्माद् प्रतिप्राप्तम्