तस्मात् ब्राह्मणः पाण्डित्यं...

विकिसूक्तिः तः

अयमेव अन्वर्थब्राह्मणः

तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् ।
बाल्यं च पाण्डित्यं च निर्विद्य अथ मुनिः, अमौनं च मौनं
च निर्विद्य अथ ब्राह्मणः ॥ - बृहदारण्यकोपनिषत् ३-५-१

तस्मात् साधकः ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन स्थातुम्
इच्छेत् । बाल्यं च पाण्डित्यं च निर्विद्य अथ मुनिः । अमौनं
च मौनं च निर्विद्य अथ ब्राह्मणो भवति ॥

साधको जिज्ञासुः सद्गुरुभ्यो वेदान्तवाक्यार्थविचारं कुर्वन् पाण्डित्यं
सम्पादयेत् । अत्र पाण्डित्यं नाम आत्मज्ञानमेव । आत्मज्ञानमेकमेव
हि परमार्थतः पाण्डित्यम् । देहादिभ्यः विलक्षणः असंसारी आत्मैवाहमस्मि
इति दृढनिश्चयो हि पाण्डित्यम् । अनेन पाण्डित्येन सहजं विद्याबलं
जायते । कामकर्मपाशैः अनाकृष्टं हि बलमेव अत्र बलं भवति । इदं
बलं ब्रह्मविद्यया एव प्राप्यते ॥

ततः अमौनं नाम पाण्डित्यबाल्ये । मौनं नाम अनात्मवस्तु तिरस्कारं
च निर्विद्य सः कृतार्थ एव भवति । एतादृश एव अन्वर्थ ब्राह्मणः ।
ब्रह्मज्ञानी एव निजब्राह्मणः । ब्रह्मज्ञानेन सर्वैरपि मानवैः सम्पाद्यमिदं
ब्राह्मण्यम् ॥