भीषाऽस्माद्वातः पवते...

विकिसूक्तिः तः

भयहेतुरेव ब्रह्म !

भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च ।
मृत्युर्धावति पञ्चम इति ॥ - तैत्तिरीयोपनिषत् २-८-१

अस्य परमात्मनः भयादेव वायुः पवते, अस्य भयादेव सूर्यः उदेति, अस्य
भयादेव अग्निः इन्द्रश्च आत्मनः कार्याणि कुरुतः । मृत्युश्च परमात्मनः,
भयादेव सदा स्वव्यापारं कर्तुं धावति ॥

देवानामपि भयमस्ति, देवा अपि मानववत् स्वस्वकार्याणि कुर्वन्ति ।
देवानामपि आत्मभूतः परमात्मा । परमात्मा स्वतन्त्रः । परमात्मनः
अनुग्रहादेव सर्वेऽपि प्राणिनः स्वस्वकर्माणि नियतं कुर्वन्ति ॥

प्रकृते तु, वायुः सदा पवते, सूर्यः विश्रमाहितः सततं प्रपञ्चं प्रकाशयति,
अग्निः सततं दहति, इन्द्रः आत्मनः कर्तव्यं श्रद्धया करोति, तथा
मृत्युदेवोऽपि आत्मनः कर्तव्यं कर्म सदा कुर्वन् धावति । भगवतः
भयमेव हि एतस्य सर्वस्यापि कार्यस्य हेतुः । परमात्माधीनतया
एव हि एते सर्वे देवाः स्वकर्मनिरताः सन्ति । सर्वेषां भयहेतुरपि
स्वयं निर्भयं सर्वेषामपि प्रत्यगात्मभूतं ब्रह्म ॥