न नरेणावरेण प्रोक्तः...

विकिसूक्तिः तः

ईदृशो, वेदान्ताचार्यो न भवेत्

न नरेणावरेण प्रोक्तः एषः सुविज्ञेयो बहुधा चिन्त्यमानः । - काठकोपनिषत् १-२-८

अवरेणा नरेण प्रोक्तः एष आत्मा सुविज्ञेयो न भवति । यतः
अयम् आत्मा अनेकवादिभिः अनेकधा चिन्त्यमानः अस्ति ॥

“आत्मैव ब्रह्म, ब्रह्मैव आत्मा, अस्माकं पारमार्थिकं
स्वरूपमेव ब्रह्म; जीवाः नैव परमार्थतः संसारिणः; सर्वेऽपि
जीवाः तत्त्वतः अजम् अजरम् अमृतं ब्रह्मैव” इति उपनिषदः
उद्घोषयन्ति । उपनिषदाम् ईदृशान् सन्देशान् स्वयमेव
पुस्तकपठनद्वारा अवगन्तुं न शक्यते । अत एव सद्गुरून्
उपगम्य, सद्गुरुभ्य एव वेदान्तसन्देशार्थान् विजानीयात् साधकः ॥

भवतु, तादृशाः सद्गुरवः के ? ब्रह्मनिष्ठाः आचार्याः । विश्वविख्यातः
सन् प्रवचनपटुरपि च सन् सकलशास्त्रप्रवीणश्च सन्नपि आत्मज्ञानी
न भवेत् चेत्, तादृशः ब्रह्मविद्याचार्यो नैव भवेत् । वेदान्तसम्प्रदायवित्
ब्रह्मनिष्ठश्चेत् तादृशः एव सद्गुरुः भवेत् । अन्यथा केवलपुस्तकमस्तकविद्यासम्पन्नः
प्रवचनपटुः केवल शुष्कपण्डितः वेदान्ताचार्यो नैव भवेत् ॥

"https://sa.wikiquote.org/w/index.php?title=न_नरेणावरेण_प्रोक्तः...&oldid=16300" इत्यस्माद् प्रतिप्राप्तम्