अष्टौ वसवः, एकादश रुद्राः...

विकिसूक्तिः तः

त्रयस्त्रिंशद्देवताः

अष्टौ वसवः, एकादश रुद्राः, द्वादश आदित्याः, ते एकत्रिंशत्;
इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशत् इति । - बृहदारण्यकोपनिषत् ३-१-२

अष्टौ वसवः, एकादश रुद्राः, द्वादश आदित्याः, इति एते एकत्रिंशत्,
इन्द्रश्च प्रजापतिश्च – एवं त्रयस्त्रिंशत् देवा अपि ब्रह्मैव ।

त्रयस्त्रिंशत् कोटिः देवताः इति लोके सामान्यतः वदन्ति । एकैकापि
देवता एकस्याः कोटेः प्रतिनिधिभूतास्ति । अस्तु, ताः त्रयस्त्रिंशत्
देवताः काः ? इति चेत् उपदिशत्ययं मन्त्रः ॥

१. अष्टौ वसवः:- धरः, ध्रुवः, सोमः, अहः, अनिलः, अनलः
प्रत्यूषः, प्रभासश्चेति ।।
२. एकादश रुद्राः : - हरः , बहुरूपः, त्र्यम्बकः, अपराजितः,
वृषाकपिः, शम्भुः, कपर्दिः, रैवतः, मृगव्याधः, शर्वः, कपालिश्चेति ॥
३. द्वादश आदित्याः : - धाता, मित्रः अर्यमा, शक्रः, वरुणः, अंशः,
भगः, विवस्वान्, पूषा, सविता, त्वष्टा, विष्णुश्चेति ॥
एते त्रयो गणदेवाः । इन्द्रः प्रजापतिश्चेति त्रयस्त्रिंशत् देवाः ॥