महाभारतसूक्तयः (निर्धनः)

विकिसूक्तिः तः

अर्थैर्विहीनः पुरुषः परैः सम्परिभूयते॥ वन.१९३/२०॥

मृतो दरिद्रः पुरुषो॥ वन.३१३/८४॥

पतिपुत्रवधादेतत् परमं दुःखमब्रवीत्।
दारिद्र्यमिति यत् प्रोक्तं पर्यायमरणं हि तत्॥ उद्योग.१३४/१३॥

स्खलितार्थं पुनस्तात संत्यजन्ति च बान्धवाः।
अप्यस्मिन् नाश्वसन्ते च जुगुप्सन्ते च तादृशम्॥ उद्योग.१३५/३९॥

अधनस्य मृतं श्रेयो॥ उद्योग.१४४/१३॥

अभिशस्तं प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम्।
दरिद्रं पातकं लोके न तच्छंसितुमर्हति॥ शान्ति.८/१४॥

अवज्ञानसहस्त्रैस्तु दोषाः कष्टतराऽधने।
धने सुखकला या तु सापि दुःखैर्विधीयते॥ शान्ति.१७७/३५॥

अधनस्येह जीवितार्थो न विद्यते॥ शान्ति.१८०/६॥

ॠध्दिर्वाप्यथवा नर्ध्दिः पर्यायकृतमेव तत्॥ शान्ति.२२४/३६॥