महाभारतसूक्तयः (न्यायाधीशः)

विकिसूक्तिः तः

<poem> व्यवहारश्च ते राजन् नित्यामाप्तैरधिष्ठितः॥ आश्रमवास.५/२७॥

योज्यस्तुष्टैर्हितै राजन् नित्यं चारैरनुष्ठितः। आदानरुचयश्चैव परदाराभिमर्शिनः॥ आश्रमवास.५/२९॥

उग्रदण्डप्रधानाश्च मिथ्या व्यवहारिणस्तथा। आक्रोष्टारश्च लुब्धाश्च हर्तारः साहसप्रियाः॥ आश्रमवास.५/३०॥

सभाविहारभेत्तारो वर्णानां च प्रदूषकाः। हिरण्यदण्ड्या वध्याश्च कर्त्तव्या देशकालतः॥ आश्रमवास.५/३१॥