महाभारतसूक्तयः (पाण्डवाः)

विकिसूक्तिः तः

सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः।
ह्नीमन्तः कीर्तिमन्तश्च धर्माचार परायणाः॥ वन.१/१८॥

धर्मे स्थिताः पाण्डवेयाः कस्तान् किं वक्तुमर्हति॥ उद्योग.९१/२७॥

यस्तान् द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु।
ऎकात्म्यं मां गतं विध्दि पाण्डवैर्धर्मचारिभिः॥ उद्योग.९१/२८॥

दृष्टि प्रदानमपि ते पाण्डवान् प्रति नो वृथा॥ आश्रमवास.१०/३९॥

समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः।
मन्दा मृदुषु कौरव्य तीक्ष्णेष्वाशीविषोपमाः। आश्रमवास.१०/४५॥

वीर्यवन्तो महात्मानः पौराणां च हिते रताः।