सत्येन लभ्यस्तपसा...

विकिसूक्तिः तः

ज्ञानप्राप्त्यै साधनानि इमानि

सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । - मुण्डकोपनिषत् ३-१-५

सत्येन तपसा सम्यग्ज्ञानेन नित्यं ब्रह्मचर्येण च एष आत्मा लभ्यः ।

आत्मज्ञानप्राप्त्यै साधनानि च उपनिषत्सु उपदिष्टानि सन्ति । ज्ञानप्राप्त्यै
अन्तः करणशुद्धिः अत्यन्तमुख्या । मनसि शुद्धे सति आत्मज्ञानप्राप्तिमार्गः
सुलभो भवति ॥

अस्तु, चित्तशुद्ध्यर्थं किं कर्तव्यम् ? इति चेत् । उच्यते । सत्यवचनम्,
इन्द्रियनिग्रहः, विवेकज्ञानम्, ब्रह्मचर्यं च अनुष्ठातव्यम् । सत्यं नाम
अनृतवर्जनम् । अनृतवचनं कष्टमेव, यतः पौर्वापर्यालोचनेनैव विचार्य,
विमृश्य अनृतं वक्तव्यं भवति । एकम् अनृतं वक्तुं, तत्पूर्वभावितया तद्
अनृतवचनं समर्थयितुं, दश अनृतानि चिन्तयित्वा योजनीयानि भवन्ति ।
अनृतवचनानां जनानाम् आत्मज्ञानप्राप्तिर्वा ? आत्मज्ञानस्य गन्धोऽपि
नास्ति । इन्द्रियनिग्रहः, सद्गुरुसेवा, ब्रह्मचर्यादीनि चित्तशुद्धिसाधनानि
भवन्ति । आत्मज्ञानप्राप्त्यै चित्तशुद्धिः अपेक्ष्यते एव ॥

"https://sa.wikiquote.org/w/index.php?title=सत्येन_लभ्यस्तपसा...&oldid=16584" इत्यस्माद् प्रतिप्राप्तम्