मृत्योः स मृत्युमाप्नोति...

विकिसूक्तिः तः

भेददर्शनेन कीदृशो अनर्थः ?

मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । - काठकोपनिषत् २-१-१०

इह परिपूर्णे आत्मनि यः नाना इव पश्यति सः मन्दः मृत्योः उपरि मृत्युम् आप्नोति ।

आत्मा परिशुद्धः परिपूर्णः अद्वितीयः अखंडचिन्मात्रश्च । अस्मिन् आत्मनि कश्चिदपि
विभागो नास्ति, कश्चिदपि भेदो नास्ति । एवंविदेव आत्मज्ञानी । एवंविदः जन्म वा
मरणं वा नास्ति, जन्मान्तरं तु नास्त्येव ॥

एवम् आत्मानम् अजानन्, जाति वर्ण-आश्रम-नामरूप-गोत्रादीन् भेदान् आत्मन्यपि
यः सत्यं पश्यति सः अज्ञः, सः मन्दः । अस्य अज्ञानस्य फलं किम् ? इति चेत्, मृत्योः
उपरि मृत्युप्राप्तिरेव फलं भवति । पुनः पुनः जन्ममरणसंसारचक्रे गृहीतः दुःखी भवति ।
नाना ‘इव’ पश्यति इति ‘इव’ शब्दं प्रयुङ्क्ते अयं मन्त्रः । ‘इव’ इति सत्यमिव दृश्यते
इत्यर्थः । परमार्थतस्तु अविद्याकालेऽपि आत्मनि भेदो नास्त्येव । अवभासनदशायामपि
भेदो नास्ति इत्यर्थः । भेददर्शनं तु मिथ्यादर्शनमेव । भेददर्शनेन अनर्था जायन्ते ॥