अनेकशास्त्रं बहु वेदितव्यम्...

विकिसूक्तिः तः

सुभाषितम्

अनेकशास्त्रं बहु वेदितव्यम्
अल्पश्च कालो बहवश्च विघ्नाः ।
यत्सारभूतं तदुपासितव्यं
हंसो यथा क्षीरमिवाम्बुमध्यात् ॥

सुभाषितसुधारत्नभाण्डागारम् ५०९-८७८

anekaśāstraṃ bahu veditavyam
alpaśca kālo bahavaśca vighnāḥ ।
yatsārabhūtaṃ tadupāsitavyaṃ
haṃso yathā kṣīramivāmbumadhyāt ॥

पदच्छेदः

अनेकशास्त्रं, बहु, वेदितव्यम्, अल्पः, च, कालः, बहवः, च, विघ्नाः, यत्, सारभूतं, तत्, उपासितव्यं, हंसः, यथा, क्षीरम्, इव, अम्बुमध्यात् ।


तात्पर्यम्

जातेन मनुष्येण बहूनां शास्त्राणां विषये यावत् शक्यते तावत् अध्येतव्यम् । तद्विषये विलम्बः न करणीयः । यतः कालः बहु अल्पः । अपि च सत्कार्याणां विघ्नाः अपि बहवः भवन्ति । यथा केनचित् कविना उक्तं - ‘क्षणशः विद्यां साधयेत्’ इति, तथैव कृत्वा शास्त्राध्ययनसमये अपि सारभूतम्, अतिप्रधानम् एव विषयं ज्ञातुम् अधिकः प्रयत्नः करणीयः । जलेन मिश्रितं क्षीरम् एकस्मिन् पात्रे अस्ति चेदपि हंसः यथा क्षीरमेव स्वीकरोति, तथा अध्ययनसमये अनुपयुक्तः अप्रधानः वा भागः परित्यक्तव्यः।


आङ्ग्लार्थः

There are many shastras (bodies of knowledge/doctrines) and abundance of knowledge. But we have limited time and a lot of obstacles. As a swan extracts milk from a mixture of milk and water, one should study the essence of the shastras (rather than studying each and every shastra to great details).