अयं पुरुषः प्राज्ञेनात्मना...

विकिसूक्तिः तः


प्राज्ञात्मसहवासफलम्

अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन
वेद नान्तरम् । - बृहदारण्यकोपनिषत् ४-३-२१

प्राज्ञेन आत्मना सम्परिष्वक्तः सन् अयं पुरुषः न बाह्यं किञ्चन
वस्तु पश्यति, नान्तरं च किञ्चिदपि पश्यति ॥

सुषुप्तिकाले च अयं जीवात्मा प्राज्ञात्मना सम्पन्नः एकीभवति ।
जागरितोपाधिना वैश्वानरः, स्वप्नोपाधिना तैजसः, सुषुप्त्युपाधिना
प्राज्ञश्च एक एव आत्मा अवभासते । सुषुप्तस्य आत्मनः प्राज्ञः
इति नामधेयं भवति। प्रकर्षेण जानाति इति प्राज्ञः, प्रज्ञ एव च
प्राज्ञः । चिन्मात्रस्वरूपस्य आत्मनः प्राज्ञः इति नाम भवति ॥

जीवः सुषुप्तौ प्राज्ञेन आत्मना सह एकीभवति । तदा अयं त्यक्तजागरितसम्बन्धः,
त्यक्तस्वप्नसम्बन्धश्च भवति । अत एव तत्र अयमात्मा स्वस्मात् भिन्नं
न किञ्चिदपि जानाति । केवलचिन्मात्रः सन् आत्मा स्वयम् अद्वितीयस्वरूपो
भवति । तत्र इष्टानिष्टे पुण्यपापे अतीत्य प्रत्यगात्मनि सहजस्वरूपे एव वर्तते ।
सुषुप्तेः आनन्दोऽयम् । प्राज्ञात्मसहवासफलमिदम् !!