निशितासिरतोऽभीको...

विकिसूक्तिः तः


चित्रकाव्यम्

निशितासिरतोऽभीको न्येजतेऽमरणा रुचा ।
चारुणा रमते जन्ये को भीतो रसिताशिनि ॥


वैशिष्ट्यम्

अस्मिन् श्लोके सम्पूर्णः
श्लोकः सुरजबन्धे विद्यते । अतः द्वितीया पङ्क्तिः प्रथमा पङ्क्तिः इव एव अस्ति किन्तु व्युत्क्रमेण ।


अर्थः

हे अमराः, नूनं, तीक्ष्णखड्गप्रियाः, निर्भीकाः भीताः इव अस्मिन् सुन्दररतैः युक्ते मानवभक्षकराक्षसैः युक्ते रणरङ्गे न कम्पन्ते ।



"https://sa.wikiquote.org/w/index.php?title=निशितासिरतोऽभीको...&oldid=14850" इत्यस्माद् प्रतिप्राप्तम्