अयं पुरुषः एतस्मै अन्ताय...

विकिसूक्तिः तः

आत्मनः मूलस्थानमेतत्

अयं पुरुषः एतस्मै अन्ताय धावति, यत्र सुप्तो न कञ्चन कामं
कामयते, न क्ञ्चन स्वप्नं पश्यति । - बृहदारण्यकोपनिषत् ४-३-१९

यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति, एतस्मै
अन्ताय अयं पुरुषो धावति ॥

सुषुप्तिं वर्णयति अयं मन्त्रः । अयं जीवात्मा जागरिते भोगान् भुक्त्वा,
अटित्वा, आयस्तः सन् आयासपरिहारार्थं सुषुप्तस्थानम् आगच्छति ।
अत्र निरायासः स्वस्थः सन् तापत्रयरहितः आनन्दी भवति । सुषुप्तौ
अविद्याकामकर्मसम्बन्धरहितः स्वस्थो भवति ॥

अत्रैकः प्रसिद्धो दृष्टान्तः । पक्षिदृष्टान्तः । खगः आकाशे अटित्वा आयस्तः
आयासपरिहारार्थं स्वनीडमेव रात्रौ प्रविशति खलु ? एवमेव आत्मा अपि
आत्मनः आनन्दस्वरूपस्थानं सुषुप्तिं प्रविशति । तत्र स्वमूलस्थाने आनन्दी
भवति । जाग्रत्स्वप्नयोः देहाद्युपाध्यध्यासेन सुखदुःखानि अनुभवन्
आयासभारपूर्णो भवति । सुषुप्तौ तु स्वस्वरूपे स्थितः आनन्दी भवति ।
सुषुप्तिर्नाम आत्मनः आयासवर्जितं वासस्थानम् ॥