भूर्भुवः सुवरिति वा...

विकिसूक्तिः तः

चतसृणां व्याहृतीनां महिमा

भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मैतां चतुर्थीम् ।
माहाचमस्यः प्रवेदयते । मह इति । तद् ब्रह्म । स आत्मा ॥ - तैत्तिरीयोपनिषत् १-५

भूः, भुवः, सुवः इति एताः तिस्रो व्याहृतयः प्रसिद्धाः । महाचमसस्य पुत्रः
माहाचमस्यः चतुर्थीं “महः” इत्येतां व्याहृतिं दृष्टवान् । सा व्याहृतिरेव
ब्रह्म, स एव च आत्मा ॥

उपनिषत्सु व्याहृत्युपासनानि उपदिष्टानि । भूः भुवः सुवः इति त्रिस्त्रो
व्याहृतयः । भूः इति समस्तोऽपि भूलोकः, भुवः इति अन्तरिक्षलोकः, सुवः
इति स्वर्गलोकः इति उपासीत । यस्मात् भूः भुवः सुवः इत्येताभिः तिसृभिः
व्याहृतिभिः भूर्लोकभुवर्लोक सुवर्लोकाः व्यापृता भवन्ति ॥

एताभ्यः तिसृभ्योऽपि विलक्षणतया चतुर्थीं ‘महः’ इति व्याहृतिं माहाचमस्यः
महर्षिः अपश्यत् । इयं ‘महः’ इति व्याहृतिः एव आदित्यः, अयमेव चन्द्रमाः,
इदमेव च ब्रह्म, अयमेव आत्मा । एवं चतसृणामपि व्याहृतीनामुपासनात्
सकलदेवतानाम् अनुग्रहः एव फलं भवति ॥

"https://sa.wikiquote.org/w/index.php?title=भूर्भुवः_सुवरिति_वा...&oldid=16405" इत्यस्माद् प्रतिप्राप्तम्