सा भार्या या प्रियं ब्रूते...

विकिसूक्तिः तः


सुभाषितम्

सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः ।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥




तात्पर्यम्

हितं या वदेत् सा पत्नी, यस्मात् शान्तिः प्राप्येत सः पुत्रः, यस्मिन् गाढः विश्वासः स्यात् सः एव स्नेहितः । यत्र जीवनं निरातङ्कं स्यात् सः एव वस्तुतः देशः ।