आदौ सङ्घटयेद् राष्ट्रं...

विकिसूक्तिः तः

सुभाषितम्

आदौ सङ्घटयेद् राष्ट्रं ततः कांक्षेत् समुन्नतिम् ।
सङ्घशक्तिं विना राष्ट्रं कुतो वा कुत उन्नतिः ॥




तात्पर्यम्

प्रप्रथमं राष्ट्रस्य सङ्घटनं कर्तव्यम् । ततः उन्नतिः साधनीया । सङ्घटितशक्तिं विना राष्ट्रं कुतः ? अभ्युदयो वा कुतः ?