स्वराज्यं रामराज्यं स्याद्...

विकिसूक्तिः तः

सुभाषितम्

स्वराज्यं रामराज्यं स्याद् लोककल्याणसाधनम् ।
लोकायत्तं लोकमान्यं यदि सङ्घटनात्मकम् ॥




तात्पर्यम्

राष्ट्रं सङ्घटितं यदि स्यात् तर्हि स्वराज्यं रामराज्यं भवेत्, लोककल्याणस्य द्वारं भवेत् । तत् लोकतन्त्रं लोकमान्यमपि भवेत् ।