दुर्मदानां परिध्वंसे...

विकिसूक्तिः तः

सुभाषितम्

दुर्मदानां परिध्वंसे यत् सुदर्शनचक्रवत् ।
लोकसङ्घटनं लोके नूनमायुधमैश्वरम् ॥




तात्पर्यम्

दुष्टानां ध्वंसने सुदर्शनचक्रं यथा समर्थम् आयुधं तथैव लोके जनसङ्घटनम् ईश्वरीयम् आयुधम् अस्ति ।