अनागतविधाता च...

विकिसूक्तिः तः

सुभाषितम्

अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेव सुखमेधेते दीर्घसूत्री विनश्यति ॥

महाभारतम् १२-१३७-१

anāgatavidhātā ca pratyutpannamatiśca yaḥ ।
dvāveva sukhamedhete dīrghasūtrī vinaśyati ॥

पदच्छेदः

अनागतविधाता, च, प्रत्युत्पन्नमतिः, च, यः, द्वौ, एव, सुखम्, एधेते, दीर्घसूत्री, विनश्यति ।


तात्पर्यम्

अग्रे आपतिष्यमाणानां विपदां सम्मुखीकरणाय यः सिद्धः स्यात्, सहसा आपतिते सङ्कष्टे परिहारोपायस्य चिन्तने यः समर्थः स्यात् सः च सुखं प्राप्नोति । यः आलस्येन कालहरणं कुर्यात् सः विनश्यति ।


आङ्ग्लार्थः

These two : one that provides for the future and one having presence in mind are always happy ; a procrastinating man perishes.

"https://sa.wikiquote.org/w/index.php?title=अनागतविधाता_च...&oldid=17421" इत्यस्माद् प्रतिप्राप्तम्