अनिर्वेदेन दीर्घेण...

विकिसूक्तिः तः


सुभाषितम्

अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च ।
देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते ॥

महाभारतम् शान्तिपर्व १५२/११८

anirvedena dīrgheṇa niścayena dhruveṇa ca ।
devadevaprasādācca kṣipraṃ phalamavāpyate ॥

पदच्छेदः

अनिर्वेदेन, दीर्घेण, निश्चयेन, ध्रुवेण, च, देवदेवप्रसादात्, च, क्षिप्रं, फलम्, अवाप्यते ।


तात्पर्यम्

कस्मिंश्चिदपि कार्ये शीघ्रफलस्य प्राप्यर्थं त्रयः अंशाः अपेक्षिताः - दीर्घप्रयत्नः, दृढनिश्चयः, भगवत्कृपा च ।


आङ्ग्लार्थः

Through continued hopefulness and firm determination and the grace of the great god, the fruits of one's acts are gained forthwith.

"https://sa.wikiquote.org/w/index.php?title=अनिर्वेदेन_दीर्घेण...&oldid=17426" इत्यस्माद् प्रतिप्राप्तम्