स्वे स्वे कर्मण्यभिरतः...

विकिसूक्तिः तः

सुभाषितम्

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥




तात्पर्यम्

स्वकर्तव्ये निरतः सर्वः अपि मानवः परमां सिद्धिं प्राप्नोति एव । एवं स्वीये कर्मणि अभिरतः जनः कथं सिद्धिं विन्दति इति श्रूयताम् ।